औचित्यस्य साम्राज्यं सर्वत्र ईश्वरीयमानवीयव्यापारेषु नितरामस्तिl तत्र भगवतः सर्वावतारेषु प्रसङ्गानुगुणानां मोहिनीवामन नृसिंहादिरूपाणां ग्रहणं प्रमाणम् l मानवीयव्यापारेष्वपि प्रसङ्गानुगुणानां वक्तृत्वदातृत्वादिगुणगणानां वैशिष्ट्यात् मानवानां लौकिकसमुत्कर्षो दृश्यत एव l काव्येऽपि औचित्यस्य महती उपयोगिता तद्यथा औचित्यादेव रसव्यवहारः, अनौचित्यात् तु रसाभासः तथैव रसस्योत्कर्षहेतुत्वादेव गुणालङ्काररीत्यादीनांस्वस्वरूपावाप्ति: l क्षेमेन्द्राचार्येण औचित्यविचारचर्चायां सविस्तरं तदौचित्यस्य अन्वयव्यतिरेकनिदर्शनाभ्यांमीमांसा विहिता, तदेवात्र शोत्रपत्रे संक्षेपेण निरूप्यतेl