Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 4, Part D

संस्कृतसाहित्ये सागरस्य सांस्कृतिकवैशिष्ट्यम्

रिगज़िन यंगडोल

मानवीयजीवनस्य प्रेरकशक्तिः, आध्यात्मजीवनस्य प्रत्यक्षजीवनस्य च कल्याणकर्तृ भारतीयसंस्कृतिः विश्वसंस्कृत्यै प्राणदायिनी वर्तते। भारतीयसंस्कृतेर्स्थायित्वे प्रगतिशीलत्वे च नदीपर्वतसमुद्रादीनां महत्त्वं प्राचीनकालादेव वर्तते। भारतीयसंस्कृतेरुत्कर्षप्रतीकरूपोऽयं सागरः वैदिकसाहित्यादारभ्य लौकिकसाहित्यपर्यन्तं भारतस्य भौगोलिकसांस्कृतिकाध्यात्मिकभावनाः निरुपयति। मूर्तामूर्तयोरुभयोः रूपयोः सागरः संस्कृतसाहित्यस्य आकर्षणकेन्द्रमस्ति। भारतीयसमाजाय अयं सागरः प्रेरणाकर्ता-जीवनदाता-दुःखहर्त्तारुपेण जनमानसं प्रभावयति। वेदेषु धनभण्डाररूपे, पुराणेषु दैवीयशक्तिरुपे, रामायणे महाभारते च आध्यात्मिकतायाः आधाररूपे, संस्कृतमहाकाव्येषु मानवीयसंवेदनां व्यक्तकर्तारूपे सागरोऽयं भारतीयसंस्कृतेर्प्राणभूतः। अस्य विशालता-गाम्भीर्यता-सौन्दर्यता-उदारता-एकता-चञ्चलतादयः गुणाः संस्कृतकवीनां रचनासु मूर्त्तरुपत्वं प्रददति। सामाजिकसांस्कृतिक-उत्थानस्याधाररूपः हिमालयाद्प्रादुर्भूतानां नदीनामाश्रयश्च अयं सागरः भारतीयसंस्कृतेर्मोक्षदाता अस्ति।
Pages : 220-223 | 272 Views | 47 Downloads
How to cite this article:
रिगज़िन यंगडोल. संस्कृतसाहित्ये सागरस्य सांस्कृतिकवैशिष्ट्यम्. Int J Sanskrit Res 2022;8(4):220-223.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.