शव्दनिष्ठसाधुत्वप्रकारकज्ञानजनकत्वं व्याकरणमिति व्याख्यापयन्ति मूर्धन्यभूता: शाव्दिका:। महामुनिपाणिनिप्रणीताष्टाध्यायीव्याकरणं सर्वेषु प्राथम्यं राजतेतराम्। चतुष्षष्टिकलाकलितभाषाज्ञानस्य अपरिहार्यत्वात् व्याकरणं भाषाविकाशाय वोधवैशद्याय च आद्रीयते । लक्ष्येलक्षणं व्याकरणमिति भाष्यस्यापि लक्ष्यविषयकसाधुत्वज्ञापकत्वं सुत्रात्मकलक्षणमेव व्याकरणम्। तत् धर्मोत्पत्यर्थं व्याकरणस्य मध्यमादि वाक्विज्ञानद्वारा परंब्रह्मधिगमत्वमुक्तं वाक्यपदीये
’तत् व्याकरणमागम्य परंव्रह्माधिगम्यते।“
अखण्डवाक्यस्फोटस्य प्रतिपत्तये पाणिनिव्याकरणस्य महान्तं भाष्यं विरच्य महर्षिपतञ्जलि: वाक्रुपव्रह्मतत्त्वस्य स्वरुपं विशदीचकार। महाभाष्यप्रथमाह्निके वैदिकावैदिकाशव्दानुशासनं वास्तविकशब्दार्थाववोधनाय महदुपकारकमिति निश्चप्रचम्। महाभाष्यकारपतञ्जले: समग्रं विवरणं पाणिनीयव्याकरणमुपजीव्य सम्पादितम्। यत: सूत्रवार्त्तिकरुपमाधारमाधाय गभीरपदार्थविवेचनात्मकं तत्त्वसमुच्चयमुपपादितम्।
सर्वो हि अर्थ: स्वविषयसंविज्ञानजनकत्वं प्रतिपाद्य व्यवहारपथमवतरति। शब्दस्य अर्थप्रकाशकस्य अर्थतादात्म्यापन्नस्य बुद्धितादात्म्यापन्नेन स्वरूपेण अर्थोपादानत्वम्। आम्नाये संहृतक्रमं भोक्तृभोग्यमिदं तत् शक्तिरूपेण अवस्थितं सूक्ष्मवागात्मकम्। आत्मतत्त्वमेव बहुधाभिन्नस्य विश्वस्य कारणत्वेन प्रतिपादितम्। तेन परब्रह्मरूपेण शब्देन मुमुक्षुभि: साजुज्यमिष्यते। तस्मिन् खलु परावाग्रूपे नित्ये वाग्योगविदो सर्वान् वासनारूपान् सन्देहरूपाञ्च ग्रन्थीन् विच्छिद्य मोक्षमभिलषन्ति।