Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Peer Reviewed Journal

International Journal of Sanskrit Research

2022, Vol. 8, Issue 4, Part A

राजवंशी-संस्कृतभाषयोर्ध्वन्याश्रितं तुलनात्मकं पर्यालोचनम्

तारा-गुप्त

साधारणतया विज्ञाने यत्र ध्वनेरालोचना दृश्यते तदेव ध्वनिविज्ञानमिति कथ्यते। ध्वनितत्त्वे को नाम ध्वनिः इति आदौ स्पष्टीकरणीयः। ध्वननमिति ध्वनिः इति व्युत्पत्त्या ध्वन्+इ इति प्रत्ययेन ध्वनिशब्दः निष्पन्नः। शब्दः, निनादः, रवः, निर्घोषः स्वनः इति ध्वनेर्नामान्तरम्। आङ्गलभाषायां कथ्यते यत् Sound तदेव संस्कृते वङ्गभाषायां राजवंशीभाषायां च ध्वनिरिति। पक्षिनः रवः, भ्रमरस्य गुञ्जनः, करतालिध्वनिः, मानवस्य कण्ठाद् उच्चारितः शब्दो ध्वनिरित्युच्यते। किन्तु भाषाविज्ञाने एते ध्वनयो नालोच्यविषयाः सन्ति। मानवानां वाग्यत्रेण उच्चारितः शब्दो ध्वनिर्वा आलोच्यविषयो ध्वनिविज्ञाने। अयं ध्वनिः वाग्ध्वनिः स्वनो वा (Phone) कथ्यते। वयं यान् स्वनान् श्रुतवन्तस्तेषां सर्वेषां स्वनानां समानभूमिका सर्वत्र नास्ति। अस्मिन् प्रबन्धे पुरातनसंस्कृतभाषा नवीनराजवंशीभाषा चेत्यनयोर्भाषयोः वाग्ध्वनेर्भमिका, तयोर्भाषयोः ध्वनिगतसादृश्यवैशादृश्यमालोचितं भविष्यतीति।
Pages : 36-41 | 570 Views | 172 Downloads


International Journal of Sanskrit Research
How to cite this article:
तारा-गुप्त. राजवंशी-संस्कृतभाषयोर्ध्वन्याश्रितं तुलनात्मकं पर्यालोचनम्. Int J Sanskrit Res 2022;8(4):36-41.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.