International Journal of Sanskrit Research
2022, Vol. 8, Issue 4, Part A
वैदिकवाङ्मये आरण्यकग्रन्थस्यौचित्यम्
दिननाथशर्मा
ऋग्यजुसामाथर्वभेदेन चतुर्षु भागेषु विभक्तवैदिकवाङ्मयस्य औचित्यं किमिति विषये ब्राह्मणारण्यकोपनिषद्भ्यो ज्ञायते। इत्येतेषु ग्रन्थेषु पृथक्त्वेन विषयाः प्रतिपादिताः सन्ति। गार्हस्थ्यादीनां यज्ञविषये ब्राह्मणग्रन्थस्यौचित्यं प्राबल्यं चोच्यते। वानप्रस्थीनां कृते त्वारण्यकग्रन्थस्यैव प्राधान्यत्वं वैदिकसंस्कृतसाहित्ये प्रतिभाति। यदुपनिषदः सन्यासिनां मोक्षसाधनहेतुः स्वीक्रियन्ते जनैः।इत्येतेषु विषयेष्वारण्यकग्रन्थस्याध्ययनेन को लाभः? किमस्य प्रयोजनम्? इति विषये ज्ञानार्थो विषयोपस्थापनं विहितं वर्तते अत्र अग्निहोत्रादीनां विधेरपि प्रवृत्तिर्जायते। श्रीमद्भागवते उक्तम्-अग्निहोत्रं च दर्शश्च, पूर्णमासश्च पूर्ववत्।चातुर्मासस्यानि च मुनेराम्नातानि च नैगमः।1 इत्येतेषु विषयेषूपलभ्यमानानि ज्ञानानि सर्वेभ्यः स्यादिति हेत्वत्र प्रस्तूयते।
How to cite this article:
दिननाथशर्मा. वैदिकवाङ्मये आरण्यकग्रन्थस्यौचित्यम्. Int J Sanskrit Res 2022;8(4):01-04.