आधुनिकेन संस्कृतसाहित्येन भारतीयाय वाङ्मयाय अनेके महान्तः साहित्यकाराः समुपहृताः। आधुनिकस्य संस्कृतसाहित्यस्य कलावधिः शताब्दद्वयमध्यवर्ती। नायं कालः केवलं भारतस्य प्रत्युत विश्वेस्येतिहासस्य दृष्ट्या नैकेषामुवेलमानां परिवर्तनानाञ्च कालः। कलावधावस्मिन् विश्वयुद्धद्वयं घटितम्, जापानदेशस्य नगरूद्वये, हिरोशिमाख्ये नागासाकीत्याख्ये च अणुबम-प्रहारजन्या मानवसंहार रूपा दुःस्थितिरूत्पन्ना, भारते आङ्ग्लशासनस्य विरोधे प्रबलः सङ्घर्षः प्रवृत्तः, यस्य स्वातन्त्र्यप्राप्तिरूपः परिणामः समजनि, भारतस्य विभाजनेन सममेव साम्प्रदायिकाः कलहाः प्रवर्तन्त। वर्षेकावधिक एव काले महात्मागान्धिनां बलिदानं दुर्घटितम्, अनेके महान्तो विभूतिमत्सत्त्वरूपा नेतारः समजनिषत, यैः स्वदेशे राष्ट्रियाया भावनायाः समुद्बोधनं सामाजिकीषु कुरीतिषु प्रहारश्च कृतः, स्वातन्त्र्ययप्राप्त्यनन्तरं भारतमेकमखण्ड राष्ट्र लोकतन्त्रात्मकगणराज्यरूपेण च प्रतिष्ठितम्। सर्वमिदमन्यासां भारतीयानां भाषाणां साहित्येष्विव संस्कृतभाषारूपे आधुनिकसाहित्यदर्पणेऽपि स्फुटतया निमालयितुं शक्यते।