Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 3, Part F

प्रधाननाटककाराणामन्यतमस्य भवभूतेवस्तिविकं नामधेयं श्रीकण्ठ परिचय:

डॉ० सूर्य मोहन कुमार

संस्कृते प्रधाननाटककाराणामन्यतमस्य भवभूतेवस्तिविकं नामधेयं श्रीकण्ठ आसीत्। विदर्भाभिजनो विश्रुतश्रीत्रियकुलोत्पन्नौऽसौ स्वयं नानाशास्त्रपारदृश्वा बभूव। तस्याद्यकृतावालोचकैः कटु आलोचितायामपि स्वकाव्यकलाप्रकर्षे प्रतियन् भविष्यति काले तद्गुणादरं सम्भावयन् स अभग्नोत्साहो नाटकान्तर-रचनाप्रवृत्तो बभूव। वाग्देवी दासी भूत्वा यथा ब्रह्माणं सेवते तथैव तमिति खलु स्याभिमान आसीत्। पुनश्च तन्मते निर्दोषायामपि कविकृतौ जनस्तथैव दोषसम्भावनां कुरुते यथा सत्यां स्त्रियाम्। अथ-
‘ये नाम केचिदिह नः प्रथयन्त्यवज्ञां,
जानन्ति ते किमपि तान् प्रति नैष यत्नः।
उत्पत्स्यते तु मम कोऽपि समानधर्मा,
कालो ह्ययं निरवधिर्विपुला च पृथ्वी॥’
इत्युक्त्वा तेन स्वसमीक्षकाः सम्यग् अधिक्षिप्ताः।
Pages : 376-378 | 231 Views | 52 Downloads
How to cite this article:
डॉ० सूर्य मोहन कुमार. प्रधाननाटककाराणामन्यतमस्य भवभूतेवस्तिविकं नामधेयं श्रीकण्ठ परिचय:. Int J Sanskrit Res 2022;8(3):376-378.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.