Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 3, Part E

याज्ञवल्क्यस्मृतौ स्त्रीणामार्थिकस्थितिः

Arya Lakshmi KA

धर्मसूत्रप्रोक्तान् वर्णाश्रमादिधर्मान् यथाक्रमं विन्यस्य मानवसमाजस्य श्रेष्ठजीवनं लक्षीकृत्य प्रकल्पिताः नियमसंहिताः एव मनुस्मृत्यादयः स्मृतयः । स्मृतिसाहित्ये यद्यपि विंशत्यधिकाः स्मृतयः समुपलब्धाः तथापि विषयविवेचनदृष्ट्या स्मृतीनामावल्यां मनुस्मृतेः विकसिता तथा वैज्ञानिककेन्द्रिता च विद्यते याज्ञवल्क्यस्मृतिः । ब्रिटिष्प्रशासनकाले हैन्दवनियमानां प्रामाणिकरूपेण आधारीकृतः ग्रन्थोऽपि अयमेवासीत् । अस्य दायभागविधानं भारतीयनियमसंहितानां रचनासु अत्यन्तं प्रभावितं दृश्यते । एवमस्मिन् लघुप्रबन्धे याज्ञवल्क्यमते स्त्रीधनस्य निर्वचनं, अस्योपयोगः कदा करणीयः तथा स्त्रीधनस्योत्तराधिकारविषये च चिन्त्यते । स्त्रीणां आर्थिकसमुन्नतिं संलक्ष्य याज्ञवल्क्येन कन्यायाः कृते पितृसम्पत्तौ उत्तराधिकारित्वं व्यवस्थाप्यते । तेनैव स्वस्मृतौ ऐदंप्राथम्येन गृहिणीभ्यः तथा विधवाभ्यश्च पत्युः सम्पत्तौ उत्तराधिकारित्वं प्रकल्प्यते । सामाजिकप्रसक्तायाः अस्याः स्मृतेः व्यावहारिकांशाः आधुनिकभारतस्य नियमव्यवस्थायामद्यापि वरीवर्तन्ते ।
Pages : 287-288 | 291 Views | 57 Downloads
How to cite this article:
Arya Lakshmi KA. याज्ञवल्क्यस्मृतौ स्त्रीणामार्थिकस्थितिः. Int J Sanskrit Res 2022;8(3):287-288.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.