Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 3, Part D

आधुनिकखगोलशास्‍त्रज्ञैः प्रतिपादिताः ग्रहाणां स्थिति-गतिविषयकाः केचन सिद्धान्ताः

गिरीशभट्टः बि, दिनेश मोहन जोशी

पारम्परिकक्रमेण ये ज्यौतिषशास्त्रस्य अध्ययनं कुर्वन्ति तेषु अधिकानां छात्त्राणां कृते आधुनिकखगोलशास्त्रस्य ज्ञानं किञ्चित् न्यूनमस्ति । यतः तेषां गतिः आधुनिकखगोलशास्त्रे आधुनिकगणितशास्त्रे च किञ्चित् अल्पीयसी वर्तते इति वयं जानीमः । अतः पारम्परिकक्रमेण ये ज्यौतिषशास्त्रस्याध्ययनं कुर्वन्ति तेषु अधिकतमाः छात्त्राः प्राचीनार्वाचीनज्योतिर्विज्ञानयोः तुलनां कर्तुं समर्थाः न भवन्ति । अस्य शोधपत्रस्य मुख्योद्देश्यम् अस्ति आधुनिकखगोलशास्त्रस्य कतिपयानां महत्वपूर्णविषयाणां सङ्क्षेपेण प्रस्तुतीकरणम् । येन पारम्परिकक्रमेण ज्यौतिषशास्त्रस्य अध्ययनरतानां छात्त्राणां कृते आधुनिकखगोलशास्त्रस्य सिद्धान्तानां सामान्यपरिचयो भवति। अस्मिन् शोधपत्रे आधुनिकखगोलशास्त्रानुसारेण ग्रह-नक्षत्रयोर्भेदाः, ग्रहशब्दव्याख्या, ग्रहाणां वर्गीकरणं, ग्रहाणां परिभ्रमणे सामान्यनियमाः, ग्रहाणां मन्दकर्णानां मानानि (सूर्याद् ग्रहाणां दूरत्वमानानि), ग्रहाणां भगणकालः, ग्रहाणां युतिकालः, ग्रहाणां दृष्टि-कलयोः निरूपणं, ग्रहाणां प्रतीयमानाः गतयः इत्येते विचाराः सम्यक् प्रतिपादिताः ।
Pages : 190-199 | 326 Views | 108 Downloads
How to cite this article:
गिरीशभट्टः बि, दिनेश मोहन जोशी. आधुनिकखगोलशास्‍त्रज्ञैः प्रतिपादिताः ग्रहाणां स्थिति-गतिविषयकाः केचन सिद्धान्ताः. Int J Sanskrit Res 2022;8(3):190-199.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.