Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 3, Part B

आर्यानार्ययोः गोष्ठीविवादः

Mom Roy Chowdhury

विश्वसाहित्येषु प्रथमा देवस्तुतिप्रधाना आर्यैः विरचिता ऋग्वेदसंहिता । तत्र इन्द्रानलार्कवरुणसोमादीनां देवानां स्तुतिः क्रियते ऋषिभिः। तेषामेव देवानामुपासना सम्पादिता धनलाभाय अनार्यनिषूदनाय च। अनार्यान् पराभूय तेषां सर्वस्वलुण्ठनं हि आर्याणां मनोरथमासीत्। अतः आर्यानार्यविरोधस्तु सर्वथासीद् धनकेन्द्रिकः। वेदव्रतविरोधिनः अनार्याः ऋग्वेदसंहितायां ‘दस्युः’, ‘दासो’ वेति नामान्तरेणाभिधीयते। अनार्याः किल अन्यव्रता: इत्यपि जल्पिताः मन्त्रान्तरेषु। ऋग्वेदस्य पञ्चममण्डले मन्त्रविशेषे ‘अब्रह्मता’ इति पदान्तरेणापि प्रकटितानार्याणां देवहीनता। ऋग्वेदे न केवलम् आर्यानार्ययोः गोष्टीविवादो विद्यते, आर्यगोष्ठीप्रधानैः सह दुष्टदासानां मिथः चण्डविवादोऽपि वर्ण्यते मन्त्रै: । ऋग्वेदे आर्यवर्गनायकप्रमुखानामुल्लेखो दृश्यते। अनार्यगोष्ठीप्रधानैः सह तेषां चिरविरोधः आसीत् । ऋग्वेदस्य सूक्तेषु बहूनामेव दस्यूनां दुष्टानां वृत्तान्तो दृश्यते। सर्वे ते सर्वदा शक्रदेवस्य तथा तस्य भक्तानाञ्च चिरविरोधिन: आसन्। आर्यप्रधानेषु सर्वे इन्द्रस्य भक्रप्रवरा: सोमाभिषवपरायणाः आसन्। तेषां परिपन्थिनः सर्वे क्रुरा: पिशाचतुल्याः दस्यवः इन्द्रेणैव विनष्टाः आहवेषु। आर्यप्रधानै: सह अनार्यै: संग्रामे अनुकम्पाशीलः करुणार्द्र: शक्रदेवः आर्यनायकस्य सुसहायकः आसीत्।
Pages : 56-58 | 390 Views | 79 Downloads
How to cite this article:
Mom Roy Chowdhury. आर्यानार्ययोः गोष्ठीविवादः. Int J Sanskrit Res 2022;8(3):56-58. DOI: 10.22271/23947519.2022.v8.i3b.1732

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.