व्यावहारिकदृष्ट्या नेपालीव्याकरणस्य उपजीव्यत्वं पाणिनिव्याकरणमिति भजति। पाणिनिव्याकरणे सम्प्रदानकारके त्रयो भेदाः। नेपालीव्याकरणे च भेदद्वयम्। अनयोः समानं भिन्नत्वम्, एषु विषयेषु चर्चा अस्मिन् लेखे विद्यते। यथा- पाणिनिव्याकरणस्य सम्प्रदानकारकस्य निम्नलिखितभेदाः-
१.अनिराकर्तृ- सूर्याय अर्घ्यं ददाति।
२.प्रेरयितृ- विप्राय गां ददाति।
३.अनुमन्तृ- उपाध्यायाय गां ददाति। इति
नेपाल्यां भेदद्वये प्रेरकः अप्रेरकश्च। प्रेरकः येन यस्मै ददाति वा मत्कृते एवं करोतु इति वदति, स प्रेरकः।