कृष्णयजुर्वेदस्य प्रमुखेषु त्रिषु धर्मसूत्रेषु बोधायनापस्तम्बहिरण्यकेशिग्रन्थाः अनेकानेक मानवीयमूल्यसम्बद्धाम्शान् उत्घोषितवन्तः तेषु सर्ववर्णानां साधारणधर्माः अत्यन्त मुख्या इति वक्तुं शक्यते। साधारणधर्मा चरणेनैव एव मानवः तस्य जन्म परिपूर्णत्वं प्राप्नोति इति पण्डिताणां अभिप्रायः।
1. वर्णव्यवस्था: कृष्णयजुर्वेदस्य प्रमुखेषु त्रिषु धर्मसूत्रेषु वर्णव्यवस्था सम्यक् निरूपिता। धर्मसूत्रेष्वेषु वर्णानां विभागः, सर्ववर्णानां साधारणधर्माः, ब्राह्मणक्षत्रियवैश्यशूद्रानाञ्च धर्माः विशेषरूपेण चर्चितास्सन्ति।
2. वर्णविभागः आर्यसमाजः वर्णदृष्ट्या चतुर्धा विभक्तः इति विदितचरमेव। अनूचानः सोSयं वर्णविभागः कृष्णयुजुर्वेदस्य प्रमुखेषु त्रिषु धर्मसूत्रेषु प्रोक्तो वर्तते–
चत्वारो वर्णा ब्राह्मणक्षत्रियविट्शूद्राः1 इति बोधायने चत्वारो वर्णा ब्रह्मणक्षत्रियवैश्यशूद्राः 2 इति आपस्तम्बहिरण्यकेशिधर्मसूत्रयोः वर्णविभागः प्रादर्शि। एते चत्वारो वर्णाः सामयाचारिकधर्मस्याधिकारिणः भवन्ति 3, नान्ये। किञ्च, आपस्तम्बहिरण्यकेशिधर्मसूत्रयोः वर्णानामेषां ब्राह्मणादीनां पूर्वः पूर्वः सद्वृत्तवतोSपि अपरात् जन्मतः श्रेष्ठत्वं प्रतिपादितम्– तेषां पूर्वः पूर्वो जन्मतश्श्रेयान् 4 इति।
3. सर्ववर्णानां साधारणधर्माः आपस्तम्बहिरण्यकेशिधर्मसूत्रयोरुभयोरपि सर्ववर्णानां साधारण धर्माः यथा अहिंसा सत्यमस्तेयादयः, विशेषधर्माः यथा अध्ययनादयः त्रयाणां ब्राह्मणक्षत्रियवैश्यानां, अध्यापनादयो ब्राह्मणस्य, युद्धादयः क्षत्रियस्य, कृष्यादयो वैश्यस्येत्यादयः प्रतिपादिताः। दुष्कर्म न करणीयमिति - दोषफलसंशये न तत् कर्तव्यम् 5, पात्रदानमेव कर्तव्यमिति - देशतः कालतः शौचतः सम्यक्प्रतिगृहीतृत इति दानानि प्रतिपादयति 6 इति।, अतिथिपूजनं कार्यमिति, पुण्यापुण्यकर्मानुगुण्येन जन्मान्तरप्राप्तिरिति, मार्गे केचन धर्माः पालनीयाः - यानस्य भाराभिनिहितस्याSSतुरस्य स्त्रिया इति सर्वैर्दातव्यः7, अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्त्ययनार्थेन सर्वेरेव दातव्यः 8, वर्णज्यायसां चेतरैर्वर्णैः9, धर्मप्रजासम्पन्ने दारे नान्यां कुर्वीत, अन्यतराभावे कार्या प्रागग्न्याधेयात् 10, न संशये प्रत्यक्षवद् ब्रूयात् 11 इत्यादयः अंशाः सर्ववर्णानां साधारणधर्माङ्गत्वेनोक्ताः। सम्प्रति एते सर्ववर्णानां साधारणधर्माः प्रदर्श्यन्ते।