Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2022, Vol. 8, Issue 1, Part D

मधुसूदनसरस्वतीप्रणीते कृष्णकुतूहलनाटके श्रीकृष्णः

समीरणः रायः

गौडीयवैष्णवसाहित्ये मधुसूदनसरस्वत्या एकं विशिष्टमवदानं वर्तते। प्रख्यातपण्डितो दार्शनिकः परमभक्तः सन्न्यासी श्रीमधुसूदनसरस्वती बांलादेशे फरिदपुरजिलान्तर्गते कोटालिपाडापरगणास्थिते ऊनशिया इति ग्रामे अजायत। ईशवीयः षोडश-सप्तदशशतकः तस्य समयकालः। सर्वतन्त्रपारङ्गमस्य तस्य मातुर्नाम अरुन्धतीदेवी पिता च प्रमोदन-पुरन्दराचार्य-नारायणः। सन्न्यासग्रहणात्पूर्वं तस्य नाम आसीत् कमलनयनः। अद्वैतवेदान्ती मधुसूदनसरस्वती अद्वैतसिद्धिः, अद्वैतरत्नरक्षणम्, भक्तिरसायनम् इत्यादीनि ग्रन्थानि रचयित्वा वैष्णवसाहित्यं तथा संस्कृतसाहित्यं समृद्धमकरोत्। परं कृष्णकुतूहलमिति नाटकं तस्य कीर्तिकेतुं वहति। नाटकस्यास्य राधाकृष्णयोरपार्थिवलीलास्वादनेन आह्लादिता भवन्ति सहृदयाः।कृष्णकुतुहलं सप्ताङ्कविशिष्टमेकं नाटकम्। राधाकृष्णयोः चन्द्रावली-कृष्णयोर्गोपिकासु च कृष्णस्य लीलावर्णनेन भक्तिरसस्य प्रतिपादनमेव नाट्यकारस्य मुख्याशयः। नाटकेऽस्मिन् नायकः श्रीकृष्णः, नायिका श्रीराधाः प्रतिनायिका च श्रीचन्द्रावली। श्रीमद्भागवत्-पद्मपुराणात्मके अस्मिन्नाटके न केवलं कृष्णस्य कैशोर-यौवनविषयकस्य वर्तमानचरितस्य, अपि तु कंसवधरूपस्य भाविचरितस्य वर्णनमस्ति। एवंविधस्य कृष्णकुतूहलनाटकस्य मधुसूदनसरस्वतीचित्रितस्य श्रीकृष्णचरित्रस्य समीक्षात्मकमध्ययनं शोधप्रबन्धेऽस्मिन् विधीयते।
Pages : 219-223 | 385 Views | 63 Downloads
How to cite this article:
समीरणः रायः. मधुसूदनसरस्वतीप्रणीते कृष्णकुतूहलनाटके श्रीकृष्णः. Int J Sanskrit Res 2022;8(1):219-223.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.