International Journal of Sanskrit Research
2022, Vol. 8, Issue 1, Part B
श्रीमद्भगवद्गीतायां मानसिकस्वास्थ्यसूत्राणि
डॉ0 श्वेता बिश्नोई
भौतिकेऽस्मिन्युगे मानसिकस्वास्थ्यसंरक्षणं महाच्चिन्ताविषयो वर्तते। श्रीकृष्णेनोपदिष्टा श्रीमद्भगवद्गीता मानसिकस्वास्थ्यस्य हेतोः निषेधात्मकं व्यवहारात्मकं च द्विविधं मार्गं शिक्षयति। मनसि ईर्ष्याद्वेषक्रोधमोहकामरागभयादीनां भावानामभावः, कर्मफलेच्छात्यागः च तत्र शुभभावान् जनयति मनुष्यः च सुखदुःखे समो भूत्वा आत्मनः समाजस्यापि च भूत्यर्थं कर्माणि आचरति तज्जाता मानसिकी शान्तिः सर्वविधमानसिकस्वास्थ्यमावहति। भगवता श्रीकृष्णेनोपदिष्टा गीता वर्तमानपरिस्थितिषु समग्रमानसिकविकारनाशस्य मानसिकस्वास्थ्यस्य च मार्गं प्रदर्शयति।
How to cite this article:
डॉ0 श्वेता बिश्नोई. श्रीमद्भगवद्गीतायां मानसिकस्वास्थ्यसूत्राणि. Int J Sanskrit Res 2022;8(1):70-72.