प्रेक्षणार्थकाद् दृश् धातोः ल्युट् प्रत्यये कृते दर्शनशब्दो निष्पद्यते। किं नाम दर्शनम्? दृश्यते अनेन इति दर्शनम्।येन साधनेन इदं विश्वं, वस्तुजातं, ब्रह्म,जीवात्मा, प्रकृतिश्च यथातथ्येन दृश्यते निरीक्ष्यते परिक्ष्यते समीक्षते विविच्यते च तद् दर्शनपदेन अभिधीयते। भारतीयदर्शनेषु पातञ्जलयोगदर्शनस्य महत्वो सर्वविदितः।अत्रैव योगतत्त्वानां स्वरुपं विस्तरेण प्रतिपादितमस्ति।योगदर्शनस्य चिन्तनपद्धतिरेव अन्यदर्शनभ्यो भिन्ना,त़ञ्च आत्मसाक्षात्काराकाङ्क्षिणः कृते अमुल्यनिधिः अस्ति। मानवसभ्यतायाः उत्पत्तिः यस्मिन् काले अभवत्, तदारभ्य योगस्यापि समुत्पत्तिः भवति । योगशास्त्रं मानवजीवनस्य सदगतये निःश्रेयस्यप्राप्तये च उदिष्टमस्ति। तद्विषये श्रीमद्भगवदगीतायां कथितं यत् - “समत्वं योगमुच्यते ” । अर्थात् कर्मणः सिद्धिसिद्धौ वा समस्थितिः भवति योगः। व्यासभाष्यानुसारे “योगः समाधिः” अर्थात् संसाररुपी सागरस्य संपूर्णं तरणमेव योगः।परन्तु महर्षिपतञ्जलिना उक्तम् - “योगश्चित्तवृत्तिनिरोधः” । चित्तवृत्तीनां निरोधेनैव योगस्य संसिद्धिः। चित्तवृत्तिनिरोधाख्यस्य योगस्य यम-नियम-आसन-प्राणायम-प्रत्याहार-धारणा-ध्यान-समाधिरुपाणि अष्टौ अङ्गानि भवन्ति।योगाङ्गानि समाधिमधिजिंगासूनां कर्तव्यमीमांसां बोधयन्ति। अष्टाङ्गयोगाभ्यासवलेन तु विविध सिद्धयः प्राप्यन्ते इत्यत्र सर्वेषां ऐकमत्यमस्ति।योगः सार्वभौमिकः धर्मोऽस्ति। न तस्य कश्चित् मते सम्प्रदाये वा पक्षपातः द्दश्यते।अत्रैव शारीरिक-मानसिक-सामाजिक-सांस्कृतिकश्च सर्वविधसमस्यायाः परित्राणोपायाः लिपिबद्धाः वर्तन्ते।
“योगेन चित्तस्य पदेन वाचां, मलं शरीरस्य च वैद्यकेन ।
योऽपाकरोत्तं प्रवरं मुनीनां, पतञ्जलिं प्राञ्जलिरानतोऽस्मि ”।।