Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 6, Part C

न्याय-वैशेषिकनये द्रव्यस्वरूपनिरूपणम्

गीताञ्जलि देइ

द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव। तथा च कारिकावल्याम्- ‘क्षित्यप्तेजोमरुद्व्योमकाल दिग्देहिनो मनः। द्रव्याणि......।।’ इति।द्रव्यस्य लक्षणं प्रतिपादयन् सूत्रकारो महर्षिकणादः समुल्लिखति 'क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम्'। अत्र क्रियावत्त्वं द्रव्यत्त्वम्, गुणवत्त्वं द्रव्यत्त्वम् , समवायिकारणत्वं द्रव्यत्त्वम् इति लक्षणत्रयं बोध्यम्।समवायिकारणतावच्छेदकधर्मवत्त्वं द्रव्यत्वमित्यर्थः। समवायिकारणतावच्छेदकधर्म्मश्च द्रव्यत्वम्। उक्तं च कारिकावल्याम्- 'समवायिकारणत्वं द्रव्यस्यैवेति विज्ञेयम्' इति। अतः अस्य लक्षणस्य द्रव्यत्ववत्त्वं वा द्रव्यत्वमित्यर्थः पर्य्यवस्यति। अत एव 'द्रव्यत्वजातिमत्त्वं वा द्रव्यत्वम्' इति द्रव्यस्य लक्षणानन्तरं भवति। प्रशस्तपादादिभिः सर्वे प्राचीनैर्लक्षणमिदम् अमुमतम्। मुक्तावल्यां तर्कदीपिकायां च लक्षणमिदं गृहीतम्।
Pages : 145-149 | 488 Views | 93 Downloads
How to cite this article:
गीताञ्जलि देइ. न्याय-वैशेषिकनये द्रव्यस्वरूपनिरूपणम्. Int J Sanskrit Res 2021;7(6):145-149.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.