Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.12

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part F

नदी-विश्वामित्रसूक्ते वर्णिते विपाट्छतुद्र्यौ नद्यौ स्त्रियौ वा

गौराङ्गः चौधुरी

मुख्यतया वैदिकसाहिस्यस्यास्य मन्त्रभेदेन ब्राह्मणभेदेन च भागद्वयं वर्तते। अस्मिन् दशममण्डलसमन्विते ऋग्वेदे बहुविषया वर्णिताः। तत्र न केवलमेव अग्नीन्द्रादयो देवस्तुतिमूलका विषया वर्णिता, एतद्विहाय दार्शनिकभावधारायुक्तानि, दानस्तुतिविषयकानि सूक्तानि, राष्ट्रैकविषयकानि सूक्तानि, अक्षसूक्तादीनि धर्मनिरपेक्षसूक्तानि, संवादसूक्तानि च वर्णतानि। एतेषु यथा दार्शनिकसूक्तानि उपनिषदां रहस्यतत्त्वेन सम्बध्यते, तथैव कानिचित् सूक्तानि काव्यरसैः सह सम्बध्यते। कथोपकथनस्य प्राधान्यबशात् एतानि संवादसूक्तानीति कथ्यते। यद्यपि कथोपकथनविषयकानि बहुनि सूक्तानि विद्यन्ते, तथापि विंशतिसूक्तेष्वेव काव्यतत्त्वस्य नाट्यरसस्य च सञ्चारः परिदृश्यते। एतेषु सूक्तेषु ऋग्वेदस्य तृतीयमण्डलस्य त्रयोस्त्रिंत्तमे नदी-विश्वामित्रसूक्ते प्रयुक्ते विपाट्-शतुद्री इति पदद्वयस्य वैचित्र्यं परिलक्ष्यते। सूक्तस्य सामान्याध्ययनेन नाम्ना च उभययोः नदीरूपं प्रकाशितम्। अतः प्रश्नो जायते नाम्ना एव यदि अर्थः परिस्फुटितो भवति तर्हि विदुषी-स्त्री इति अर्थग्रहणस्य आवश्यकता का?अयमेव विषयः भाष्यकारदृष्ट्या अत्र आलोचयिष्यते। अपि च ग्रहणीयताविषये संशये जाते निरुक्तादीनां परिपूरकप्रामाणिकग्रन्थानां मतानि अपि आलोचयिष्यन्ते।
Pages : 335-337 | 162 Views | 9 Downloads
How to cite this article:
गौराङ्गः चौधुरी. नदी-विश्वामित्रसूक्ते वर्णिते विपाट्छतुद्र्यौ नद्यौ स्त्रियौ वा. Int J Sanskrit Res 2021;7(5):335-337.
Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.