International Journal of Sanskrit Research
2021, Vol. 7, Issue 5, Part F
भविष्यपुराणानुसारं मोक्षदायकव्रतानां समीक्षणम्
बीरेन्द्रदासः
वेदोपवृंहनशास्त्रं वेदव्याख्यानशास्त्रं वा पुराणशास्त्रं सुविस्तृतं गभीरतत्त्वान्वितं तथ्यसमृद्धञ्च। वैदिकऋषीनां मननात्मकमन्त्रानां तात्पर्यं भाष्योपभाष्यादिग्रन्थेषु वर्णितं सदपि समाजे अतिसाधारणजनानां कृते तस्य महनीयत्वं न हृदयवेद्यम् आसीत्। पुराणशास्त्रन्तु सहजतया अतिसारल्येन वेदव्याख्यानद्वारा सर्वेषां कृते चिन्तावर्धकं नानाशास्त्रीयगुणान्वितञ्च। संस्कृतशास्त्रे धर्मशास्त्ररूपेणापि पुराणशास्त्रस्य प्रसिद्धिरस्ति। महापुराणमुपपुराणाभ्यां मुख्यतया पुराणशास्त्रस्य द्वैविध्यं स्वीकृतम्। अष्टादशमहापुराणेषु भविष्यपुराणमन्यतमम्। अस्य महापुराणस्य प्राचीनत्त्वविषये संशयोऽस्ति, केचन तस्य अर्वाचीनत्वमपि स्वीकूर्वन्ति। अस्य महतः शास्त्रस्य वक्ता सर्वशास्त्रज्ञः सुमन्तुः श्रोता च अजमीरनन्दनः तेजस्वी राजा शातनीकः। आत्मनः सुखार्थं कृष्णद्वैपायनः व्यासदेवः धर्म-वेदस्मृति-शास्त्रोपजीवकं भविष्यपुराणशास्त्रं व्यरचयत्। कलियुगे अल्पायुषां विद्याहीनानां मनुष्याणां सुखावहार्थम् अस्य महापुराणस्य सृष्टिः। भविष्यपुराणे दान-उपचार-उपासना व्रतानुष्ठानादि बहुविधसाधनानामालोचनास्ति। एतेषु साधनमार्गेषु व्रतानुष्ठानमन्यतमसाधनम्। व्रियते इति वृञ् वरणे बाहुलकादतच् स च कित् इत्यनया व्युत्पत्त्या निष्पद्यते व्रतशव्दः। अथवा वृ धातोः क्त प्रत्ययेन निष्पन्नः व्रतशव्दः। अर्थात् उपवासादिभिः यैः कर्मानुष्ठानैः पूर्णकर्मानुष्ठानं व्रतनाम्नाभिधीयते। ईष्टलाभार्थम् अनुष्ठेयविशिष्ठधर्माचारं व्रतम्। साधारणतः गृहस्थानां साफल्यकामनार्थं सामाजिकजीवने व्रतपालनस्य विधानं दीयते। यद्यपि पौराणिकयुगे देवानां तुष्टिविधानार्थं हि व्रतपालनस्य मुख्यं उद्देश्यं तथापि ततो प्रागेच व्रतानुष्ठानस्य प्रचलनमासीत्। किन्तु पौराणिकयुगे एव आचारादिसम्बन्धितं व्रतानुष्ठानं शास्त्रीयानुमोदनं लभते। व्रतविषयकं शोधपत्रेऽस्मिन् भविष्यपुराणानुसारं संक्षेपेणाऽत्रालोचनं वर्तते।
How to cite this article:
बीरेन्द्रदासः. भविष्यपुराणानुसारं मोक्षदायकव्रतानां समीक्षणम्. Int J Sanskrit Res 2021;7(5):329-334.