Red Paper
Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part D

चतुर्वेदभाष्यकारः श्रीमद्विद्यारण्यस्वामी

दुर्गाशरणरथः

मान्याः चतुर्वेदभाष्यकारः आचार्यसायणः इति प्रथते हि लोके। नैकेषु अर्वाचीनग्रन्थेषु तथा कतिपयप्राचीनग्रन्थेषु इतिहासादिषु च तत्तद्विद्वद्भिर्प्रतिपादितम् । परन्तु ऐतिहासात्मिकदृष्ट्या यदि वयं परिशीलयामः तर्हि ज्ञायते यत् माधवाचार्यः एव चतुर्वेदभाष्यकर्ता वर्तते ।यस्तु कालान्तरे चतुर्थाश्रमे प्रविश्य शृङ्गगिरौ विद्यारण्यस्वामि नाम्ना विभूषितः ।
प्रसङ्गेऽस्मिन् अहोबलपण्डितेन तेलुगुव्याकरणे इत्थं प्रतिपादितम् -
वेदानां भाष्यकर्ता विवृतमुनिवचा धातुवृतेर्विधाता,
प्रोद्यद्विद्यानगर्यो हरिहरनृपतेः सार्वभौमत्वदायी।
वाणी नीलाहिवेणी सरसिजनिलया किंकरीति प्रसिद्धा
विद्यारण्योऽग्रगण्योऽभवदखिलगुरुः शंकरो वीतशंकः।।
किञ्च ऋग्भाष्योपक्रमे पूर्वोत्तरमीमांसाकारः माधवाचार्य एव वेदभाष्य कर्ता इति शृयते -
ये पूर्वोत्तरमीमांसे ते व्याख्यायाति संग्रहात्।
कृपालुर्माधवाचार्यो वेदार्थं व्याकरोत्खलु।। (ऋग्भाष्योपक्रमे)
वस्तुतः श्लोकेऽस्मिन् उच्चारितपूर्वोत्तरमीमांसाशब्दात् ज्ञातुं शक्यते यत् माधवाचार्य एव चतुर्वेदभाष्यकारः। यैः बुक्कमहीपतेरादेशात् भाष्यं निरमायि, नास्ति चेत् पूर्वोत्तरमीमांसाकारः मध्यमभ्रातासायणः कथञ्चिदपि भवितुं नार्हत्येव। यतोहि पूर्वमीमांसायां “जैमिनीयन्यायमालाविस्तरः” तथा उत्तरमीमांसायां वेदान्तपञ्चदशी, दशोपनिषद्दीपिका, वृहदारण्यकोपनिषद्वार्तिकसारः, जीवन्मुक्तिविवेकप्रभृतयोग्रन्थाः माधवाचार्यैरेवप्रणीतम् । ते एव अग्रिमाश्रमे विद्यारण्यनाम्ना विभूषितः। अतः एभिर्प्रमाणैः संसिध्यति यत् चतुर्वेदभाष्यकार विद्यारण्यस्वामि न तु सायणः ।
Pages : 184-192 | 1331 Views | 321 Downloads


International Journal of Sanskrit Research
How to cite this article:
दुर्गाशरणरथः. चतुर्वेदभाष्यकारः श्रीमद्विद्यारण्यस्वामी. Int J Sanskrit Res 2021;7(5):184-192.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.