Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 5, Part A

पाणिनिनये ‘अनचि च’ सूत्रस्य नञर्थसमीक्षा

उत्तम-माझिः

भगवता पाणिनिना विरचिताष्टाध्यायीग्रन्थे “अनचि च” इति अष्टमाध्यायस्य चतुर्थपादस्य सप्ताशीतितमं सूत्रम् । अस्मिन् सूत्रे ‘अनचि,’ ‘च’ इति पदद्वयं वर्तते । ‘अनचि’ इत्यनेन पदेन निषेधः क्रियते । अतः¬ ‘अनचि’ इत्यत्र न अच् = अनच् तस्मिन् अनचीति नञ्समासः । सूत्रे अस्मिन् विधिवाक्यं निषेधवाक्यं च विद्यते । विधिवाक्यस्यार्थो भवति- अचोऽव्यवहितपरस्य यरः स्थाने द्वे वा भवतः । निषेधवाक्यस्यार्थो भवति- अचोऽव्यवहितपूर्वस्य यरः स्थाने द्वे न भवतः । नञर्थः द्विविधो वर्तते- पर्युदासः प्रसज्यप्रतिषेधश्च । “अनचि च” (८/४/८७) सूत्रे कस्मिन्नर्थे निषेधः विधीयते। तस्मिन् विषये वैयाकरणानां मध्ये पारस्पारिकं वैमत्यं प्रकटितम् । महाभाष्यकारः काशिकाकारः प्रक्रियाकौमुदीकारश्च पर्युदासपक्षः समर्थितः । अपरे तु शेखरकारः सिद्धान्तकौमुदीकारः बालमनोरमाकारः प्रदीपकारश्च प्रसज्यप्रतिषेधपक्षः समर्थितः । अतः कस्मिन्नर्थे निषेधो कर्तव्यः तस्मिन् विषये वैयाकरणानां मध्ये वैमत्यं परिलक्ष्यते । अतः प्रबन्धेऽस्मिन् वैयाकरणानां मध्ये वैमत्यमुल्लिख्य “अनचि च” (८/४/८७) सूत्रे नञर्थसमीक्षा प्रदीयते ।
Pages : 22-26 | 601 Views | 133 Downloads
How to cite this article:
उत्तम-माझिः. पाणिनिनये ‘अनचि च’ सूत्रस्य नञर्थसमीक्षा. Int J Sanskrit Res 2021;7(5):22-26.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.