मानवजीवनस्य परिस्कृतं रूपं संस्कारनाम्ना अभिधीयते। इदं जीवनं यदा शुद्धमाचरणं करोति तदा जनाः वदन्ति अयं बालकः आचारयुक्तो भवति। संस्कारितश्च अस्ति। अतः अनेन ज्ञायते यद् संस्कारो हि गूढान्तराधानमुच्यते। चरकऋषेः वचनमिदं प्रमाणी क्रियते यद् – मनुष्यजीवने यद् परिवर्तनं भवति तद् परिवर्तनं संस्कारकारणादेव भवति। अयं संस्कारः जन्मजन्मान्तरयोः सञ्चितपुण्यकारणात् नवीनजीवने उद्भाषितो भवति। संस्कारो हि नाम गुणस्याधानः। यदा मनुष्यस्य शरीरे गुणस्याधानं भवति तदा तस्य जीवने किञ्चिद् यथार्थपरिवर्तनं दृश्यते। तद् परिवर्तनं संस्कारगम्, संस्कारिताः जनाः समाजे यद् किमपि कार्यं कुर्वन्ति तस्य प्रशंसा भवति। अयं संस्कारः जन्मजन्मान्तरेण साकं सम्बध्यो भवति। पुनश्च केचन् ऋषयः वदन्ति यद् अस्य संस्कारस्य सम्बन्धः कर्मणा साकं वर्तते। कर्मजन्यं फलमेव संस्कारस्य परिचयं कारयति। कर्मणा साकं सम्बन्धकारणात् संस्कारोऽयं प्रतिष्ठितो भवति। वैदिकऋषयः मानवजीवनसुव्यवस्थितकरणाय वैदिकसंस्कारस्य दर्शनमुक्तवन्तः। एते संस्काराः वैज्ञानिकपद्धत्या समाजे प्रचलिताः सन्ति। वैदिककालादारभ्य अद्यावधिपर्यन्तं एतेषां संस्काराणां पालनं सर्वैः हि स्वीक्रियते। मानववजीवनस्याधारभूतः संस्कारो वर्तते। कस्यापि मनुष्यस्य कुललोकयोः परम्परया यानि कार्याणि क्रियन्ते तेषां कार्याणां सम्यक्प्रकारेण सम्पादनार्थं गुणशीलसौन्दर्य्यपारम्परिकशिष्टाचाराणामावश्यकता अनुभूयते। तत्र कार्यस्य सुष्ठुसम्पादनाय संस्काराः परोक्षरूपेण प्रेरयन्ति। तेषां संस्काराणां सहाय्येनैव कोऽपि मनुष्यः स्वजीवने शोभनं कार्यं कर्तुं शक्नोति। ‘कीर्ति यस्य स जीवति’ इति उक्तेः मूले जन्मजन्मान्तरयोः सञ्चितपुण्यरूपेण यः संस्कार वर्तते स एव प्रारब्धरूपेण कार्यं करोति। संस्कारविषये शतपथब्राह्मणे उच्यते यथा –
‘स इदं देवेभ्यो हविः संस्कुरु साधु संस्कृतं संस्कुर्वित्यैवैतदाह’। 1
कालिदासकृतदृश्यकाव्येषु संस्कारस्य चर्चा विशदरूपेण विद्यते। अत्र कर्मजन्यफलं भोगाय मानवजीवनं संरक्षणाय च संस्कारस्य प्रतिष्ठा कालिदासेन कृता।विक्रमोर्वशीयदृश्यकाव्ये येषां संस्काराणां चर्चा विद्यते। तेषां यथाक्रमेण अत्र विवेचनं क्रियते।