International Journal of Sanskrit Research
2021, Vol. 7, Issue 4, Part D
सरलमानकसंस्कृतम् उत प्रौढमानकसंस्कृतम्
डा. विश्वजित् प्रामाणिकः
भाष्यते व्यवहारादिषु प्रयुज्यते इति भाषा। समग्रजगतितलेऽस्मिन् बह्व्यः भाषाः वर्तन्ते। आसु भाषासु प्रसिद्धभाषात्वेन सर्वभारतीयभाषाजननीत्वेन संस्कृतभाषा विश्वेऽस्मिन् प्रथते। अन्यभाषेव संस्कृताख्यभाषायाः अपि स्वरूपद्वयं भवति सरलं प्रौढञ्च। सरलभाषया लोकव्यवहारः क्रियते। जनाः परस्परं भावाभिव्यक्तिकाले सरलभाषायाः प्रयोगं कुर्वन्ति। संस्कृतभाषायाः इदं सरलरूपम् उररीकृत्य सरलमानकसंस्कृतमित्यस्य संरचना अभूत्। भाषायाः अपररूपं प्रौढमिति। इदं प्रौढरूपं प्रत्येकं भाषायाः साहित्येषु समुपलभ्यते। विद्वज्जनसमूहे अपि प्रौढभाषा प्रयुज्यते। भाषायाः प्रौढस्वरूपम् उररीकृत्य प्रौढमानकसंस्कृतमिति भवितुम् अर्हति। सम्प्रति सरलमानकसंस्कृतेन सह प्रौढमानकसंस्कृतस्य आवश्यकता वर्तते वेति महान् प्रश्नः। सामान्यसम्भाषणकाले सरलसंस्कृतस्यैव आश्रयः श्रेयसे, किन्तु प्राचीनग्रन्थादीनाम् अध्ययनाय सरलसंस्कृतभाषया सह नूनं प्रौढसंस्कृतभाषायाः पर्याप्तं ज्ञानं प्रत्येकमपि संस्कृताध्येतुः भवेत्। सरलसंस्कृतस्य अभ्यासः अधुना प्रायशः सर्वत्रापि जायमानः दृश्यते। सम्प्रति समयः आगतः सरलमानकसंस्कृतेन सह प्रौढमानकसंस्कृतस्य अभ्यासाय। सरलसंस्कृतस्य ज्ञानं सम्प्राप्तवान् सर्वोऽपि संस्कृताध्येता प्रौढसंस्कृतज्ञानाय प्रयतेत। सरलमानकसंस्कृतवत् प्रौढसंस्कृतमपि प्रौढमानकसंस्कृतं भवतु इति धिया तत्रापि सीमाङ्कनं करणीयम्। सर्वकवीनां रचनाशैलीः परिशील्य प्रौढमानकसंस्कृतस्य परिधिनिश्चयः कर्तुं शक्येत। मनुष्यबुद्धौ संस्कृतभाषाप्रयोगसन्दर्भे प्रकोष्ठद्वयं भवेत्। यस्मिन् समये यस्याः भाषायाः प्रयोगः आवश्यकः, तस्मिन् समये तादृशभाषायाः अर्थात् सरलप्रौढयोः आवश्यकतानुगुणं प्रयोगः करणीयः। नवसंस्कृताध्येतृभिः सह निश्चप्रचं सरलसंस्कृतेन, संस्कृतभाषाविद्भिः सह निश्चप्रचम् आवश्यकतानुगुणं सरलेन वा प्रौढेन वा व्यवहारः योग्यतरः। एवं साम्प्रतिके काले सरलमानकसंस्कृतेन सह प्रौढमानकसंस्कृतस्य आवश्यकता वर्तते इति निश्चित्य योग्यस्वरूपनिर्माणं सम्प्रति अस्मदग्रिमोत्तरदायित्त्वम्।
How to cite this article:
डा. विश्वजित् प्रामाणिकः. सरलमानकसंस्कृतम् उत प्रौढमानकसंस्कृतम्. Int J Sanskrit Res 2021;7(4):226-229.