Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 4, Part C

रामायणे राष्ट्रियैक्यस्य प्रमुखतत्त्वानां विचारः

परमेश्वरः

आदिकविवाल्मीकिविरचिते रामायणे पुरुषोत्तमरामस्य मुखात् ये शब्दाः निःसृताः ते च शब्दाः अद्यापि समस्तभारतीयजनमानसे देशप्रेमभावनां जागरयन्ति इति निश्चप्रचम् । यथा - जननी जन्मभूमिश्च स्वर्गादपि गरीयसी । इत्यनेन वाक्येन ज्ञायते यत् वाल्मीकिरचितं रामायणमेतातादृशमेकं महाकाव्यं भवति, यच्च महाकाव्यं राष्ट्रियैकतार्थं, देशवासीनां हितार्थं, तेषां स्वाभिमानगौरवार्थं प्रेरणामुत्साहं च प्रददाति । अतः रामायणे राष्ट्रस्य राष्ट्रियैकता स्वरूपमित्थमेवासीत् । अत्र राष्ट्रियैकता मुख्यतः एका भावात्मिकाशक्तिः वर्तते । वस्तुत: इयम् एका सामुदायिकी भावना भवति । या च भावना देशस्य नागरिकाणां मनसि विकसिता भवति। यदा केषामपि राष्ट्राणामुत अन्यदेशानां नागरिका: पारस्परिकरूपेण एकत्वभावनामनुभवन्ति। सुखदुःखेषु एकः अपरस्य कर्मणि साहाय्यमाचरन्ति तथा राष्ट्रहिताय स्वस्य सर्वस्वं दानं कर्तुं तत्पराः भवन्ति । तदा तेषु वास्तविकतायाः राष्ट्रियैकतायाः भावः दृष्टिगोचरो भवति । वाल्मीकि रामायणे प्रत्येकस्मिन् स्थाने राष्ट्रियैकतायाः भावः दरीदृश्यते । अतः रामायणकाले राष्ट्रियैकतां सम्पादयितुं राष्ट्रियैकतायाः तत्त्वानां प्राधान्यं दरिदृश्यते ।
Pages : 180-182 | 473 Views | 52 Downloads
How to cite this article:
परमेश्वरः. रामायणे राष्ट्रियैक्यस्य प्रमुखतत्त्वानां विचारः. Int J Sanskrit Res 2021;7(4):180-182.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.