International Journal of Sanskrit Research
2021, Vol. 7, Issue 4, Part A
लोकायतप्रस्थाने व्याप्तितत्त्वखण्डनसमीक्षणम्
अर्पितानाथः
दार्शनिकतत्त्वानां भारतीयदर्शनवाङ्मये लोकायतदर्शनं तथा चार्वाकदर्शनं महत्वपूर्णं स्थानमलभत्। लोकायतदर्शनं चार्वाकदर्शनस्यापरं नाम। साधारणलोकसमाजे सर्वाधिकं रमणीयं प्रस्थानमिदं दर्शनं वा – तद्धेतौ दर्शनस्यास्य नाम लोकायतदर्शनम्। तदपि च शरीरसम्बन्धीयसुखभोग एव तथा कामः परमपुरुषार्थरूपेणास्मिन् वाङ्मये स्वीकृतः। तस्मादस्य प्रस्थानस्यापरं नाम खलु चार्वाकदर्शनम्। परम्परायां प्रचलितमस्ति दोवानां गुरुः बृहस्पतिः दैत्यगुरुशुक्राचार्यस्य वेशेनासुराणां समीपे मतमिदं कथितवान् तथा च दैत्याः तन्मतं सानन्देन गृहीतवन्तः। मतमिदं जनसमाजे सर्वाधिकं प्रचलितमिति कारणात् लोकायतमिति नामकरणम्। अतीतानागतादिविषयोऽस्मिन् प्रस्थाने नाङ्गीकृतः। अपि चानुमानादिप्रमाणं लोकायतदर्शने न स्वीकृतम्। परन्तु प्रमाणरूपेण केवलं प्रत्यक्षप्रमाणं दर्शनेऽस्मिन्नङ्गीकृतम्। एतस्मात् कारणादस्मिन् प्रस्थाने शरीरातिक्तमात्मतत्त्वं जन्मान्तरवाद ईश्वरतत्त्वं प्रसिद्धमोक्षतत्त्वं न स्थिरीकृतम्। यतो ह्येतादृशं तत्त्वं न प्रत्यक्षप्रमाणेन सिद्धम्। परन्तु पूर्वोक्तसर्वतत्त्वमनुमानादिप्रमाणैः सिद्धम्। भारतीयदर्शनवाङ्मयेऽष्टविधं प्रमाणं प्रसिद्धम्। तेष्वष्टप्रमाणेषु प्रत्यक्षानुमानशब्दप्रमाणत्रयं प्रायेण चार्वाकव्यतिरिक्ते सर्वदर्शने स्वीकृतम्। उपमानशब्दप्रमाणखण्डने लोकायतिकानां युक्तिः सर्वजनमनोहरा। अधिकन्त्वनुमानप्रमाणखण्डने तेषां चार्वाकानां सूक्ष्मविचारशैली लक्षणीया। अनुमानप्रमाणं व्याप्तिज्ञानजन्यं तथा व्याप्तिज्ञानमुपाधिज्ञानजन्यमिति कारणात् तत्रानुमाने प्रमाणेऽनवस्थादोषं प्रदर्श्य चार्वाकाः महत्वं प्रदर्शितवन्तः। यतः लोकायतिकारुपाधिज्ञाने दोषमाविस्कृत्य व्याप्तिज्ञानेऽपि दोषमाविस्कृतवन्तः। अनेन प्रकारेण दुष्टोपाधिजन्यं दुष्टव्याप्तिज्ञानं तथा दुष्टव्याप्तिज्ञानजन्यं दुष्टानुमानमिति हेतौ चार्वाकनये नैपुण्येनानुमानमस्वीकृतमिति विषयः प्रबन्धेऽस्मिन्नालोचनायाः सारात्सारः।
How to cite this article:
अर्पितानाथः. लोकायतप्रस्थाने व्याप्तितत्त्वखण्डनसमीक्षणम्. Int J Sanskrit Res 2021;7(4):41-51.