साम्प्रतिके युगे विज्ञानस्य महन्मत्त्वं प्रतीयते। अद्य विज्ञानं काव्य माध्यमेन प्राकृतिकानि वस्तून्यपि आत्मसात् कर्तुं प्रयतमानमस्ति। आधुनिक युगं विज्ञानयुगं गण्यते। सर्वतो विज्ञानवार्ता प्रचरति। पदे - पदे, स्थाने-स्थाने, प्रतिनगरं प्रतिग्रामं प्रतिगृहं च विज्ञानस्याश्रयणेनैव कर्मसिद्धिः संजायते। नहि तादृशं किमपि कर्म यत्र विज्ञानं नापेक्ष्यत, विज्ञानं वोपेक्ष्येत, विज्ञानस्य साहाय्यं वा नाभीष्टं स्यात्। गमने, पठने, भाषणे, वाग्व्यवहारे, भोजनदिकर्मणि, यातायाते, संवादसम्प्रेषणे, चिकित्साक्षेत्रे, मनोरञ्जनकर्मणि, दूरदेश यात्रासु, वस्तु निर्माणे, अन्नोत्पादने, वस्त्रनिर्माणे, कृषिकर्मणि, भवन निर्माणे, व्यापारे, वाणिज्ये, वैज्ञानिकनुसन्धने, चन्दादिग्रहप्राप्तौ, विलासिता - सामग्री - संकलने च सर्वत्रैव विज्ञानम् अपेक्ष्यते।