Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 3, Part B

तत्त्वाध्वानानुसरणम् - काश्मीरशैवपरम्परायां साङ्ख्यदर्शने च प्रदत्तानां तत्त्वानामनुशीलनम्

सुरेन्द्रचन्द्रत्रिपाठीः

दुःखत्रयात् मुक्तिः एव पुरुषस्य ध्येयः इति साङ्ख्यकारः भणति । तत्त्वज्ञानेन दुःखत्रयात् स्वां विमुच्य अमृतत्वं लभते नश्वरः मनुष्यः इति तत्र दृढोक्तिः दरीदृष्यते । ज्ञानेन हि बन्धात् विमुच्यते मनुष्यः । (Shastri, 1948) । पक्षान्तरे काश्मीरशैव परम्परायां “ज्ञानबन्धः” इति अतीवमहत्वपूर्णसूत्रं वर्तते । (Laxmanjoo, 2002. p. 18) । “अज्ञानबन्धः” इति श्लेषार्थमपि कर्तुं शक्नुमः अस्य सूत्रस्य । पुनश्च पञ्चविंशति तत्वानां व्याख्यानमुपलभ्यते साङ्ख्यहर्शने यत्र प्रकृतिपुरुषौ कालातीतौ तत्त्वौ । शैव परम्परायां तु षट्त्रिशत्तत्त्वानि वर्ण्यन्ते, तत्र आक्षितिपुरुषतत्त्वानि अशुद्धानि; मायया सह पञ्चकञ्चुकानि शुद्धाशुद्धतत्त्वानि; शिव, शक्ति, ईश्वर, सदाशिव, शुद्धविद्या च शुद्धतत्त्वानि (Laxmanjoo, 2003) । साङ्ख्यदर्शने पुरुषस्य किमपि कर्तृत्व नास्ति सृष्टिसर्जने, काश्मीरशैवदर्शने परमशिवः स्वेच्छायां सृष्टिं कामयति । तत्र एतादृशां बाह्यवैषम्यानां तर्कपूर्वकविचारविमर्शः, पन्थाद्वयोर्मध्ये का श्रेष्ठा अपि च सर्वोपरि तत्त्वानां संख्यागतासामञ्जस्यनिरूपणम् अस्य शोधपत्रस्य आशयः ।
Pages : 108-113 | 527 Views | 95 Downloads


International Journal of Sanskrit Research
How to cite this article:
सुरेन्द्रचन्द्रत्रिपाठीः. तत्त्वाध्वानानुसरणम् - काश्मीरशैवपरम्परायां साङ्ख्यदर्शने च प्रदत्तानां तत्त्वानामनुशीलनम्. Int J Sanskrit Res 2021;7(3):108-113.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.