Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 3, Part B

वैयाकरणः मल्लिनाथः - रघुवंशमहाकाव्यस्य सञ्जीविनी-टीकानुसारे एका समीक्षा

मानस कुमार घोषः

संस्कृतभाषायाः प्रायेण सर्वास्वेव शाखासु विरचितानां ग्रन्थानामर्थावगमो विना टीकया न सम्भवति । एतस्मिन् कारणे कविकर्मणां मर्मार्थं सुखेन वोधयितुं काले काले विद्वद्भिर्बहवष्टीकाः विरचिताः । तत्र महाकाव्यानां व्याख्यातृषु बहुषु समुपलभ्यमानेष्वपि तत्रभवतो मल्लिनाथस्य स्थानमुच्चैर्विद्यते । संस्कृतभाषायाः प्रायेण सर्वास्वेव शाखासु यथा न्यायदर्शने, वैशेषिकदर्शने, ज्योर्विविद्यायां, तन्त्रे, नीतिशास्त्रे, व्याकरणशास्त्रे, पुराणधर्मशास्त्रादिषु तस्य पाण्डित्यमासीदिति तदीयटीकाध्ययनेन अस्माभिः विज्ञायते । परन्तु व्याकरणसाशास्त्रे तस्य सर्वाधिकं पाण्डित्यं आसीदिति तदीयटीकाध्ययनेन वक्तुं शक्यते । विशेषतः मल्लिनाथः व्याख्याकारः आसीत् इति वयम् जानीमः, किन्तु सः वैयाकरणः अपि आसीत् इति मे शोधपत्रस्य आलोच्य विषयः। शोधपत्रेऽस्मिन् मल्लिनाथस्य व्याकरणशास्त्रविषयकं यद् ज्ञानं रघुवंशमहाकाव्यस्य सञ्जीविनीटीकायां लभ्यते तस्य समुपस्थापनं यथामति क्रियते ।
Pages : 79-83 | 649 Views | 102 Downloads


International Journal of Sanskrit Research
How to cite this article:
मानस कुमार घोषः. वैयाकरणः मल्लिनाथः - रघुवंशमहाकाव्यस्य सञ्जीविनी-टीकानुसारे एका समीक्षा. Int J Sanskrit Res 2021;7(3):79-83.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.