Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 2, Part B

अष्टाध्याय्याः सङ्ख्यात्मकं विश्लेषणम्

डाॅ. धर्मेश शर्मा

शब्दानां द्वयोर्विभागयोर्लौकिके वैदिके च कृतयोः सतोः सामान्यतः केषा´्चिद् वैयाकरणानामेषा धारणा जायते यदष्टाध्याय्यामुपर्युक्तानां द्विप्रकारकशब्दानां व्याकरणार्थं द्विप्रकारकौ विभागौ लौकिकसूत्राणि वैदिकसूत्राणि च भवतः। अस्या धारणायाः पृष्ठे कारणमेतदस्ति यत् सामान्यत इदमवगम्यते यद्यानि सूत्राणि वैदिकशब्दानां व्याकरणं कथयन्ति तानि वैदिकसूत्राणि कथ्यन्ते तथा चावशिष्टानि सूत्राणि यानि वैदिकशब्दानां व्याकरणं न कथयन्ति तानि लौकिकसूत्राणि कथ्यन्ते। परन्त्वेषा धारणा काचिदपूर्णा विद्यते। वस्तुतः पाणिनेराशयः शब्दमात्रस्य व्याकरणस्य प्रस्तुतकरणेनास्ति। एवं सति पाणिनिर्वेदे तथा लोके च यत्र कांश्चन विशिष्टान् कस्मिंश्चिदेकस्मिन् क्षेत्रे (लोकेऽथवा वेदे) एव प्रयुक्तान् शब्दानुपलेभे तत्र स क्रमशः ‘छन्दसि’, ‘भाषायाम्’ इत्यादिभिः शब्दैर्वैदिकलौकिकसूत्राणां विभागं प्रस्तुतं चकार, अवशिष्टानि सूत्राणि शब्दमात्रस्यार्थाल्लोके वेदे च प्रयुक्तानां शब्दानां व्याकरणं प्रस्तुतं कुर्वन्ति। एवमेतेषु सर्वेषु बिन्दुषु विचारयन्तो वयमष्टाध्याय्याः सर्वाणि सूत्राणि त्रिषु विभागेषु विभक्तुं शक्नुमः- वैदिकसूत्राणि, लौकिकसूत्राणि, सामान्यसूत्राणि चेति।
Pages : 80-84 | 479 Views | 63 Downloads
How to cite this article:
डाॅ. धर्मेश शर्मा. अष्टाध्याय्याः सङ्ख्यात्मकं विश्लेषणम्. Int J Sanskrit Res 2021;7(2):80-84.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.