International Journal of Sanskrit Research
2021, Vol. 7, Issue 1, Part I
“सूत्रं व्याकरणमि" ति भाष्योक्तेः भाषावैज्ञानिकमध्ययनम्
Dr. Giridhari Panda
त्रिमुनिव्याकरणे प्रसिद्धं प्रतीतं च महाभाष्यं सर्वातिशायीति प्रमाणान्तरं नापेक्ष्यते। भाष्ये सूत्रवार्तिकयोः अनस्वीतं तात्पर्यं च विभिन्नेन कौशलेन विचारितं विद्यते। पाणिनीयं सूत्रं वर्णेनापि आनर्थक्यं न भजते इति धिया भाष्यकृता यत्नः सर्वथा आधेयः। सूत्रतात्पर्यप्रदर्शनपुरःसरं तेषां प्रकाशन प्रत्याख्यानम् आशयप्रतिपादनञ्च साध्यते। परस्परं विरोधं विधाय भाषाशास्त्रीयदृष्ट्या प्रयोगसाधुत्वमिष्ठं जायते तत्रत्यं लक्ष्यम् । वार्तिकाक्षेपस्य निराकरणम्. वार्त्तिकाक्षेपस्य समर्थनम् सूत्राशयवर्णनम्, सूत्राणां प्रत्याख्यानम् नूतनतया प्रयोगसाधनम्-इत्येवंभावेन तंत्रावलम्बिता भाषादृष्ट्या विषयदृष्ट्या विवेचनदृष्ट्या सूत्रवार्तिकपल्लवनदृष्ट्या च भाष्योपदिष्टा अभिनवा शैली अनविदिता एव, यस्याः भाषावैज्ञानिकदृष्ट्या याथार्थ्यं सर्वथाSSनस्वीकार्यम् । सूत्रे अल्पाक्षरेण समन्वितेन पदेन बहुविधस्य तात्पर्यस्य उपस्थापनं कर्तव्यं जायते इति सूत्रलक्षणात् तस्मात् प्रतिपाद्यते । पाणिनीयोपक्रमे यानि सूत्राणि वार्तिकवचनानि सन्ति संघटितानि, तेषामेव व्याख्याने आशयसाधने च भाष्यं सर्वथा उद्दिष्टम्। विवेचनातः प्रतिभाति त्रिमुनिसम्प्रदायें सूत्रवार्तिकभाष्यस्य उपपादनमस्मिन् तात्पर्ये सर्वथा उपपादितम्। तद्विरचितं भाष्यं पातञ्जलमहाभाष्यनाम्रा प्रायतः 85 इति आह्निकमाध्यमेन उपस्थापितं विद्यते। तत्र पस्पशाह्निके भाष्यकृताः व्याकरणमित्यस्य शब्दस्य कः पदार्थः इति आशंक्य उपस्थापितं सूत्रं व्याकरणमिति। तस्मात् सूत्रस्य शास्त्रीयं स्वरूपं व्याकरणमिति शब्दशास्त्रस्य तात्पर्यात् धायते। सूत्रस्य व्याकरणत्वसाधने वार्त्तिकानामुपस्थापनपुरःसरं यः विचारः साधितः तदत्र भाषावैज्ञानिकदृष्ट्या प्रस्तूयते ।
How to cite this article:
Dr. Giridhari Panda. “सूत्रं व्याकरणमि" ति भाष्योक्तेः भाषावैज्ञानिकमध्ययनम्. Int J Sanskrit Res 2021;7(1):515-518.