Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.12

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part I
अकर्मवश्यम् ब्रह्म

Dr. V Balaji

प्रपञ्चसृष्टिकाले एको हि परमात्मा सर्वेष्वपि प्राणिषु “अनेन जीवेन” इति मन्त्रोक्तरीत्या अनुप्रविश्य नामरूपव्याकरणं करोति इत्युक्तं, एवं प्रजापतिवाक्योदितगुणाः जीवब्रह्मणोः साम्यत्वेऽपि, एकस्मिन् शरीरे स्थितिप्राप्तयोः एकस्य सुखदुःखभोक्तृत्वम्, अन्यस्य तदनश्नत्वञ्च उच्यते मुण्डकोपनिषद्वाक्येन -
“द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योभिचाकशीति।। 1
समाने वृक्षे पुरुषो निमग्नः अनीशया शोचति मुह्यमानः।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः।।”2
श्रुत्यर्थः -
तत्र “युक्” शब्दः गुणपरः। युज्यते इति युक्, इति तस्य व्युत्पत्तिः। समानगुणकः सयुक् इत्यर्थः। अतः सयुजौ – समानगुणकौ अपहतपाप्मत्वादि गुणैः परस्परसमानौ, सखायौ – सहचरौ द्वौ, सुपर्णौ – पक्षिसदृशौ, समानं वृक्षं – एकं छेदनार्हं वृक्षवत्, नाशार्हशरीरं समाश्रितौ इत्यर्थः। तयोः मध्ये अन्यतरः जीवः स्वादु पिप्पलाख्यकर्मफलं भुङ्क्ते, अन्यस्तु परमात्मा अभुञ्जान एव प्रकाशते। अत्र शरीरतदाश्रयजीवपरादि विषयवाचकशब्दनिगरणेन विषयवाचकवृक्षसुपर्णादिशब्दैः वृक्षत्वाद्यध्यवसानलक्षणरूपातिशयोक्तिः विच्छित्तिविशेषाय इत्यर्थः। अतः एकस्मिन्नेव शरीरे स्थितेऽपि तस्य परमात्मनः न कर्मफलाश्नत्वं सङ्गच्छते।
Pages : 505-508 | 129 Views | 10 Downloads
How to cite this article:
Dr. V Balaji. अकर्मवश्यम् ब्रह्म. Int J Sanskrit Res 2021;7(1):505-508.
Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.