Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.12

International Journal of Sanskrit Research

2021, Vol. 7, Issue 1, Part I
ऋकारऌवर्णयोः सवर्णविधिविमर्शः

उत्तम-माझिः

आचार्यः पाणिनिमतानुसारे “तुल्यास्यप्रयत्नं सवर्णम्’’(१/१/९) सूत्रानुसारे तुल्यौ स्थानप्रयत्नौ यस्य तदक्षरं मिथः सवर्णसंज्ञा स्यात्। यथा- ‘दण्डाग्रम्’, ‘दैत्यारिः’ अत्र द्वयोरकारयोरेकोदीर्घ आकारः, स्थानसाम्यात्। परन्तु ऋऌवर्णयोर्मूर्धादन्तात्मकभिन्नस्थानकत्वात् सवर्णसंज्ञा न भवति। माहेश्वरसूत्रेऽपि ‘ऋऌ’ इति पृथगुपदेशः कृतः। परन्तु वार्तिककारेण वार्तिकं कृतम्-“ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्।’’ अतः “ऋत्यकः’’(अ.६/१/१२८) इत्यनेन वैकल्पिके ह्रस्वे अकारे प्रकृतिभावे च ‘खट्वऋर्ष्यः’, ‘मालऋर्ष्यः’ इत्येकं रूपं भवति। यदा सवर्ण्याद् ऌवर्णस्य ग्रहणम्, तदा ‘खट्वा + ऌर्ष्यः’, ‘माला + ऌर्ष्यः’ इति स्थिते “ऋत्यकः’’(अ.६/१/१२८) इत्यनेन वैकल्पिके ह्रस्वे अकारे प्रकृतिभावे च ‘खट्वऌर्ष्यः’, ‘मालऌर्ष्यः’ इत्येकं रूपमपि भवति। परन्तु सर्वत्र ऋकारेण ऌकारग्रहणं सन्निहितं न भवति। यथा ‘क्ऌ३प्तशिखः’ इत्यत्र “गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्’’(अ.८/२/८६) इत्यनेन प्लुतो भवति, अत्र ‘अनृतः’ इति पदेन प्लुतो निषेधः कथं न भवति ? अपि च ऌकारेण ऋकारग्रहणं न भवति- “पुषादिद्युताद्यऌदितः परस्मैपदेषु’’(अ.३/१५५) सूत्रस्य ज्ञापकात्। प्रभृतिविषयाणामुपरि विश्लेषणात्मकमध्ययनमस्य शोधप्रबन्धस्य प्रमुखोद्देश्यः।
Pages : 489-493 | 79 Views | 16 Downloads
How to cite this article:
उत्तम-माझिः. ऋकारऌवर्णयोः सवर्णविधिविमर्शः. Int J Sanskrit Res 2021;7(1):489-493.
Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.