International Journal of Sanskrit Research
2021, Vol. 7, Issue 1, Part I
स्वातितिरुनाल् रामवर्ममहाराजस्य संस्कृतरचनाः - एकमवलॊकनम्।
Dr. Viswaja S Nair
स्वातितिरुनाल् रामवर्मा (१८१३-१८४६) तिरुवितांकूर् राज्यस्य शासकः आसीत्। त्रयस्त्रिंशत् वर्षकालीनजीवनॆन तॆन कृतानि राज्यस्य नवॊत्थानप्रवर्तनानि अद्यापि प्राधान्यत्वॆन कॆरलीयैः स्मर्यन्तॆ। बहुभाषापण्डितः सकलकलावल्लभश्चॆति प्रसिद्धः सः कॆरलीयसंस्कृतपरम्परायामन्यतमः। स्यानन्दूरपुरवर्णनप्रबन्धः, भक्तिमञ्जरिः पद्मनाभशतकम्, उत्सवप्रबन्धः, अजामिलॊपाख्यानम्, कुचॆलॊपाख्यानम् इत्यादयः तॆन विरचिताः संस्कृतकृतयः सन्ति। कर्णाटकसंगीतलॊकॆ अद्वितीयः सः संस्कृतभाषायामनॆकाः कृतयः अलिखत्। तस्य कालः संगीतकलायाः सुवर्णकाल इति कॆरलीयैः गण्यन्तॆ। पत्रॆऽस्मिन् संस्कृतभाषायां स्वातितिरुनाल् महाराजस्य सम्भावनानामवलॊकनं कर्तुमुद्दिश्यतॆ।
How to cite this article:
Dr. Viswaja S Nair. स्वातितिरुनाल् रामवर्ममहाराजस्य संस्कृतरचनाः - एकमवलॊकनम्।. Int J Sanskrit Res 2021;7(1):481-483.