International Journal of Sanskrit Research
2021, Vol. 7, Issue 1, Part G
सङ्कटसमाधाने भागवद्गीता
विष्णुपदसाऊः
सङ्कटसङ्कुलं हि मानवजीवनम्। सङ्कटविहीनावस्थां कुत्रापि न परिदृश्यन्ते। एकः सङ्कटः समाहितश्चेदपरः समायाति। समष्टिजीवने व्यष्टिजीवने च सङ्कटाः निरविच्छिन्नरुपेण सन्ति। कर्ममार्गिनां भक्तिमार्गिनां ज्ञानमार्गिनाञ्च सर्वेषां सङ्क्टाः सन्ति। सामाजिकजीवने पारिवारिकजीवने राष्ट्रियजीवने कर्मजीवने सर्वत्रैव विद्यते सङ्कटाः। परन्तु सङ्कटसमाधाने अस्माकं कर्तव्यं किम् अस्ति? किं वा तत् उपायम्? तस्मिन् विषये इदम् शोधपत्रम्। विविधेषु कर्मषु निष्कामकर्म एव सर्वदा आश्रयनीयः। वर्तमानसमाजव्यवस्थायाम् लक्ष्यते यत् स्वस्व- कर्तव्यकर्मषु, आश्रमोचितधर्माचरणे वा जनाः पराङ्मुखाः। अतः तेषां कृतेऽपि वार्तामस्ति अत्र। आधुनिकयुगस्य वर्णभेदसङ्कटमोचनस्य उपायम् अपि अत्रास्ति।वर्णव्यवस्था जन्मानुसारिणी न, कर्मानुसारिणी भवेत्। एतेन सत्कर्मण्यनुरुध्य शुद्र अपि ब्राह्मणत्वं लभते। अज्ञानेन आच्छन्नाः जनाः केवलं वदन्ति मां न स्पृश प्रभृतयः। एतेन समाजस्य गतिः विध्वस्ता भवति। अतः सर्वभूतेषु ब्रह्मदर्शनं कुर्यात्। ब्रह्मदर्शनस्योपायमपि वर्णनम् अस्ति। सभ्यतायाः ध्वंसस्य मूलकारणम् हिंसा। अत्र हिंसा परित्यगस्योपायाः वर्णितम्। षडरिपुषु कामः क्रोधः च अस्माकं शत्रुस्वरूपः। स्वस्थमनसा कामः क्रोधः च नियन्त्रितः भवति। अतः मनः स्वस्थाय किम् किम् करणीयम् तस्योपायम् वर्णितम्। मोक्षप्राप्तेरुपायः वर्णितः। व्यवहारेण रिपुः जायते। केन सह कीदृशं व्यवहारं कर्तव्यम् तदपि वर्णितम्। सर्वेषां मानवानां कृते एवमेव वार्तामस्ति यत् मनसि धर्मविद्वेषभावना न स्यात्। एतेन जनानां तथा राष्ट्रस्य विकाशः भविष्यति। एतानि विषयाण्याधारिकृत्य मम शोधकार्यम्।
How to cite this article:
विष्णुपदसाऊः. सङ्कटसमाधाने भागवद्गीता. Int J Sanskrit Res 2021;7(1):364-367.