वेदपुरुषस्य मुखं खलु व्याकरणम्, उच्यते- ’मुखं व्याकरणं स्मृतम‘1्। ’व्याक्रियन्ते व्युत्पाद्यन्ते षब्दाः अनेनेति व्याकरणम्। एतेषु सर्वोत्तमं सर्वश्रेष्ठं च व्याकरणं पाणिनिव्याकरणम्। महर्षिणा पाणिनिना विरचितो व्याकरणग्रन्थो हि ’अष्टाध्यायी’। अष्टाध्यायीग्रन्थे चत्वारः पादाः, प्रायः ४॰॰॰ सूत्राणि विद्यन्ते। सूत्रात्मकपरम्परायां महर्षिपाणिनेः ’अष्टाध्यायी’ मस्तकमणिरूपेण अवस्थीयते। कुमारिलभट्टेन तन्त्रवार्तिके
उक्तम़़्-
“सूत्रेष्वेव हि तत् सर्वं यद्वृत्तौ यच्च वार्तिके।
सूत्रं योनिरिहार्थानां सर्वं सूत्रं प्रतिष्ठितम्“2।।
सूत्रमिदं षट्प्रकारकम्। यथा - संज्ञा, परिभाषा, विधिः, नियमः, अतिदेषः, अधिकारष्च। उच्यते-
“संज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेषोऽधिकारष्च षड्विधं सूत्रलक्षणम्“।।
केचन तु प्रतिषेधः, अनुवादः, विभाषा, निपातनञ्चेति चतुष्टयं सूत्रलक्षणं संयुज्य दषधा सूत्रलक्षणमिति वदन्ति।