प्राचीनकालतः अद्यवधि सुस्वास्थ्यशरीरविनिर्माय विविधशास्त्रोल्लिखिता जीवनशैल्यी अतीव महत्वपूर्णा अस्ति। यतोहि आरोग्यमेव भवति मदीयजीवने सुखस्य मूलम्। विषयेऽस्मिन् महाकविकालिदासेन स्वकीयकुमारसम्भवमहाकाव्ये उच्यते- ‘शरीरमाद्यं खलु धर्मसाधनम्’ इति। स्वास्थ्यविषये सुश्रुतसंहितायामपि निगदितमस्ति- यस्मिन् व्यक्तौ त्रयो दोषाः सप्त धातवश्च समुचितरूपेन सन्ति, अपि च एकादशेन्द्रियः आत्मा प्रसन्नो दृश्यते, तमेव ‘सुस्थमि’ति कथ्यते। अत एतदारोग्यं प्राप्तार्थं आयुर्वेदशास्त्रेषु आहाराद्यालोचितजीवनयात्राविषये यथाज्ञानमस्ति तद् यथार्थरूपेण अस्माभिः परिपालनीयम्। इदं ज्ञानमस्माकं जीवनयात्रायाः स्तम्भस्वरूपमासीत्। एतज्जीवनशैलीविषये योगेश्वरः श्रीकृष्णोऽपि श्रीमद्भगवद्गीतायां सुष्ठुरूपेणालोचितम्। युक्ताहारं विना शरीररक्षणमसम्भवमेव। वस्तुतः आहारस्य प्रभावो न केवलं शरीरे मनसि अपि विस्तृतो भवति। अतः छान्दग्योपनिषदि ऋषिणावाचि- ‘आहारशुद्धौ सत्त्वशुद्धिः’ इति। आधुनिकसमाजे जीवनशैल्याः शास्त्रनियमलङघनत्वात् विविधा रोगा भविष्यन्ति मानवशरीरे। अतः रोगविनाशाय जीवनयात्रायाः अन्यतमोऽङ्गो विहार: पालनीयः। निद्रा अतीव सुखदायका भवति। रात्रौ न कदापि जागरणीयम्, ब्रह्ममुहूर्ते शय्यात्यागं करणीयमिति अभ्यासः कर्तव्यमस्ति। ब्रह्मचर्यः स्वास्थस्य हेतुरूपो मन्यते। ब्रह्मचर्यपालनेन मनः शरीरञ्च वज्रवत् दृढ़ं भवेत्।
सुस्थशरीरस्य कृते शरीरचर्चायाः प्रयोजनमस्ति। विवेकानन्दस्य वाणी अत्र स्मरणीया- ‘गीता पाठ अपेक्षा फुटवल खेला भाल’ इति। यदि कोऽपि प्रतिदिनं योगाभ्यासं करोति तर्हि कदापि कथमपि तस्य रोगो न भवति। प्रतिदिनं शौचस्नानासनादिनित्यकर्म कृत्वा दीर्घकालं यावत् श्रद्धापूर्वकं ध्यान-प्रार्थना-उपासना-मन्त्रजपं करोति तर्हि अवश्यमेव परमशक्तिः परमशान्तिः परमानन्दः प्राप्नुवन्ति इति हरिः।