International Journal of Sanskrit Research
2021, Vol. 7, Issue 1, Part D
पाणिनिव्याकरण-ऋग्वेदप्रातिशाख्ययोः सन्धिविषयकं तुलनात्मकमध्ययनम्
मानसीमालः
पाणिनिः ‘अष्टाध्यायी’ इति ग्रन्थे षष्ठाध्यायस्य प्रथमपादे अष्टमाध्यायस्य तृतीयपादे च सन्धिविषयकं विविधसूत्रं रचितवान्। यद्यपि प्रथमाध्याये ‘परः सन्निकर्षः संहिता’ एतादृशं संहितायाः संज्ञानिर्देशकसूत्रं कृतवान् तथापि परवर्तिकाले रूपमाला-रूपावतार-प्रक्रियाकौमुदीग्रन्थानां प्रक्रियारीतिम् अनुसृत्य भट्टोजिदीक्षितः क्रमानुसारेण सूत्राणां व्याख्यानं न कृत्वा पाणिनिना प्रणीतस्य व्याकरणस्य विविधविषयान् प्रकरणानुसारेण विभाजयामास। तत्र सन्धिविषये व्याख्यानसमये संज्ञापरिभाषाविषयकविविधसूत्राणां प्रयोगं कृत्वा सन्धेः रीतेः व्याख्यां कृतवान्। वैदिकयुगे शौनकेन प्रणीते ‘ऋग्वेदप्रातिशाख्यम्’ इति ग्रन्थे द्वितीयचतुर्थपटलयोः उक्तवान् - ‘संहिता पदप्रकृतिः’ । पदपाठ एव मूलप्रकृतिः कारणं वा यत् संहितारूपविषये विकारं प्राप्नोति। पाणिनिना प्रणीते ‘अष्टाध्यायी’ इति ग्रन्थे, शौनकेन प्रणीते च ‘ऋग्वेदप्रातिशाख्यम्’ इति ग्रन्थे सन्धिविषयिणी पर्यालोचना वर्तते। द्वयोः ग्रन्थयोः सन्धिविषयकपर्यालोचनम् अध्ययनं च सम्यक्तया कृत्वा सादृश्यं वैसादृश्यञ्च दृष्टम्। द्वयोः ग्रन्थयोः सन्धिविषयकं तुलनात्मकमध्ययनमिति गवेषणापत्रस्य विषयवस्तु। पाणिनिव्याकरणस्य विशेषतया लक्षणीयं यथा माहेश्वरसूत्रेण प्रत्याहारनिर्माणं, संज्ञापरिभाषादिनियमेन सन्धिसूत्राणि प्रयुक्तानि। ये विषयाः शौनकेन विरचिते ‘ऋग्वेदप्रातिशाख्यम्’ इति ग्रन्थे भिन्नरूपेण वर्तन्ते।
How to cite this article:
मानसीमालः. पाणिनिव्याकरण-ऋग्वेदप्रातिशाख्ययोः सन्धिविषयकं तुलनात्मकमध्ययनम्. Int J Sanskrit Res 2021;7(1):196-199.