International Journal of Sanskrit Research
2021, Vol. 7, Issue 1, Part B
विजयपर्वणि कवेः काव्यप्रतिभाविचारः
जगदीशमालः
आधुनिकसंस्कृतसाहित्यजगति अभिराजराजेन्द्रमिश्रमहोदयः प्रख्यातः काव्यकारोऽस्ति। तस्य विविधासु रचनासु साम्प्रतिककालस्य वृत्तान्तं पौराणिकवृत्तान्तं लौकिकवृत्तान्तमितिहासाश्रितवृत्तान्तञ्च दरीदृश्यते। मिश्रमहाभागस्येतिहासाश्रितकाव्येषु विजयपर्व काव्यं महत्वपूर्णं स्थानं लभते। काव्यमिदं रचितं हिन्दीसाहित्यकारस्य रामकुमारवर्मामहाभागस्य हिन्दीभाषया विरचितं विजयपर्व नाटकमवलम्ब्य। इतिहासाश्रितं प्रसिद्धं कलिङ्गयुद्धस्य वृत्तान्तमाश्रित्य नाटकमिदं विनिर्मितम्। यद्यपि तत्र विजयपर्व नामके दृश्यकाव्ये कलिङ्गयुद्धेऽशोकस्य विजयसंवादस्य प्रतिफलनमस्ति तथापि तत्र नाटके ऐतिहासिकवृत्तान्तेन साकं काव्यकल्पनमपि विद्यते। तस्मादस्मिन्नाटके केन प्रकारेण कवेः काव्यप्रतिभा प्रतिफलिताऽस्तीति विषयमवलम्ब्य प्रस्तुतोऽयं शोधप्रबन्धः।
How to cite this article:
जगदीशमालः. विजयपर्वणि कवेः काव्यप्रतिभाविचारः. Int J Sanskrit Res 2021;7(1):93-96.