International Journal of Sanskrit Research
2021, Vol. 7, Issue 1, Part B
शैवसपर्यासमीक्षणम्
प्रदीप्तकुमार नन्दः
तत्र सकलकुशलकरं शिवनाम एव। शैवदर्शनमपि बहुपुरातनं निखिलेस्मिन् भारतमण्डले नूनमतीव प्राचीनं धार्मिकसंप्रदायेषु स्वकीयं महत्वपूर्णस्थानं भजते। ऋग्वेदे रुद्ररूपेण शिवस्य स्वरूपप्रतिपादकाः सन्ति बहवो मन्त्रा इति नापरोक्षं प्रेक्षावताम्। कथ्यते द्राविडदेशे एव शिवस्याविर्भावो जातः। द्राविडदेश एव शिवस्य शिवपूजायाश्च जन्मभूमिर्विराजतेतराम्। ये महेश्वरनियुक्ते श्रौते स्मार्ते च कर्मणि प्रवर्तन्ते ते मुच्यन्ते। ये तु न प्रवर्तन्ते, ते संसरन्ति। तथाहि ऐतरेयोपनिषदि-पन्था एतत्कर्म तस्मान्न प्रमाद्येत नातीयात् न ह्यत्यायंस्ते। इति। अग्निसमुपासकानां वैदिकानां धर्मे लिंगात्म्करूपेणोपास्यस्य शिवस्याविर्भावः कथं समजनि इत्यस्मिन् विषये कानपि विचारान् विपश्चितां मनस्तोषाय स्तोकमुदीरयामि।
How to cite this article:
प्रदीप्तकुमार नन्दः. शैवसपर्यासमीक्षणम्. Int J Sanskrit Res 2021;7(1):81-83.