International Journal of Sanskrit Research
2020, Vol. 6, Issue 5, Part C
कठोपनिषदि भगवद्गीतायां च इन्द्रियनिग्रहस्य प्राधान्यम्।
आर्या. एस्. विजयन्
संस्कृतसाहित्ये वैदिकसाहित्यस्य महिमा सर्वोपरि वर्तते। वेदे संहिता- ब्रह्मण- आरण्यक- उपनिषदभिधानेन चतुर्विभागः सन्ति। एतेषु चतुर्षु विभगेषु मन्त्ररूपो वैदिक- देवता- स्तुतिपरको वैदिक महर्षिभिः साक्षात्कृतो प्रधानविभागः संहिताभिधानेन व्यवह्रीयते। ब्रह्मचारि अस्य अध्ययनसमये गुरोः सकाशात् संहितान्तर्गतानि मन्त्राणि गृहीत्वा हृदिसन्निवेशनम् क्रीयते। समवर्तनानन्तरं गृहस्थाश्रमे संहितायाः व्याख्यानरूपस्य ब्राह्मणस्य उपयोगः क्रीयते। सन्यासाश्रमे तु उपनिषद् तत्वानां साधनेन परमात्मज्ञानः मोक्षः च सिध्यते। परमानन्दप्रदायकाः उपनिषद् ग्रन्थाः परमार्थैकगोचरं श्रुतिभागमेव। भारतीयदर्शनसाहित्ये श्रुतिप्रस्थान- सूत्रप्रस्थान- स्मृतिप्रस्थान भेदेन प्रस्थानत्रयम् विराजते। वेदान्तस्य मुख्यस्तम्भरूपेण विराजमानं प्रस्थानत्रयं उपनिषद्- ब्रह्मसूत्र- भगवद्गीतायाः समन्वयमेव। एवं प्रस्थानत्रयं वेदान् पुरस्कृत्य मानवजीवनस्य परमं लक्ष्यम् तत्प्राप्तिसाधनं च उपदिश्यन्ति। प्रस्थानत्रय्यां मध्ये उपनिषदः भारतीय विचारशास्त्रस्य श्रेष्ठोपजीव्य ग्रन्थरूपेण प्रथम प्रस्थान पदं अलङ्करोति।
How to cite this article:
आर्या. एस्. विजयन्. कठोपनिषदि भगवद्गीतायां च इन्द्रियनिग्रहस्य प्राधान्यम्।. Int J Sanskrit Res 2020;6(5):148-151.