Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 5, Part C

चार्वाकमतसमीक्षणम्‌

ड़ा. प्रदीप्त कुमार नन्द, विद्वन्मणि, विद्यावारिधि

भारतीयदर्शनं द्विधा विभक्तम् । आस्तिक-नास्तिकभेदात् । आस्तिकेषु न्याय-वैशेषिक-सांख्य-योग-वेदान्त-मीमांसादीनि षट् दर्शनानि प्रसिद्धानि। चार्वाक-बौद्ध-जैनानि नास्तिकदर्शनानि । कालक्रमे बोद्धेषु मतभेदो जात: । पश्चात् वैभाषिक-सौत्रान्तिक-माध्यमिक-योगाचारभेदेन बौद्धाश्चतुर्धा विभक्ता: । जैना अपि श्वेताम्बर-दिगम्बरभेदेन द्विधा विभक्ता: । भारतीयदर्शनगोष्ठीषु चार्वाकदर्शनमतीव क्षीणतया वरीवर्तते। नाप्यस्य कश्चिदाधारस्तम्भ: । चार्वाकदर्शनविषये जयराशिभट्टकृत टतत्त्वोपप्लवसिंह:ठ चरमोत्तमो ग्रन्थ: । अन्यथा विष्णुपुराण-महाभारत-मैत्री उपनिषत् बृहदारण्यकोपनिषत् छान्दोग्योपनिषत् सर्वसिद्धान्तसंग्रह-षड्दर्शनसमुच्चय-सर्वदर्शनसंग्रह- प्रबोधचन्द्रोदयनाटकादिषु दार्शनिकग्रन्थेषु च चार्वाकमतानि इतस्ततमुपलभ्यन्ते । अतीव क्षुद्रतया पूर्वपक्षरूपेण एतद्दर्शनं सर्वादौ प्रयुक्तम् । चार्वाके यत्तत्वं निहितं तत्तु विद्वद्भि: नादृतम् । केवलं मनोरंजनपरकं कपोलकल्पितमिति कथयितुं शक्यते । जागतिकतत्त्वचतुष्टयं चार्वाकदर्शनस्य मूलम् । संक्षेपेण देह-देहसुखव्यतिरिक्तं किमपि तत्त्वं चाऱ्वाको न वक्ति।
Pages : 129-132 | 630 Views | 81 Downloads
How to cite this article:
ड़ा. प्रदीप्त कुमार नन्द, विद्वन्मणि, विद्यावारिधि. चार्वाकमतसमीक्षणम्‌. Int J Sanskrit Res 2020;6(5):129-132.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.