International Journal of Sanskrit Research
2020, Vol. 6, Issue 4, Part B
दर्शनशास्त्रे औपचारिकप्रयोगानामेकं समीक्षात्मकपर्यालोचनम्
Nitai Pal
यस्मिन् यो धर्मो नास्ति तत्र तद्धर्मस्यारोप उपचारशब्देन कथ्यते। दर्शनशास्त्रेष्वपि उपचारशब्दस्य तस्मिन्नेव अर्थे प्रयोगः परिलक्ष्यते। दर्शनशास्त्रे प्रधानतया चार्वाकदर्शने, न्यायदर्शने, वैशेषिकदर्शने, सांख्यदर्शने, योगदर्शने, वेदान्तदर्शने चैतादृश औपचारिकः प्रयोग उपलभ्यते। तेषाम् औपचारिकप्रयोगानां यथामति संकलनंशोधप्रबन्धेऽस्मिन् वर्तते। अर्थात् औपचारिकप्रयोगात्मकं संकलनं तेषां पर्यालोचनञ्च अस्य शोधपत्रस्य विषयः। अस्मिन् शोधप्रबन्धे पाठकानां प्रवृत्तिः कथं जायते इति जिज्ञासायामुच्यते येषां पाठकानाम् औपचारिकप्रयोगविषये ज्ञानमाहर्तुमिच्छा वर्तते, ते स्वल्पायासेन अस्मात् शोधपत्रात् उपचारविषयकं ज्ञानं प्राप्तुं शक्नुवन्ति।
How to cite this article:
Nitai Pal. दर्शनशास्त्रे औपचारिकप्रयोगानामेकं समीक्षात्मकपर्यालोचनम्. Int J Sanskrit Res 2020;6(4):81-85.