संस्कृतसाहित्यदृष्ट्या स्वच्छभारताभियानस्योद्देश्यम्
Dr. Menakarani Sahoo
संप्रति मानवानां आर्थिकक्षेत्रे यथा अभ्युदयः भवति तथा नैतिकक्षेत्रे तेषां अधोगतिरपि भवति । संप्रति मानवः प्रायशः लोभग्रस्थाः, स्वार्थग्रस्थाः, कामवासनाप्रियाः, विलासभोगासक्ताः भवन्ति । अतः जनाः मानविकगुणहीनाः सन्तः सर्वदा अमानविककार्याणि प्रवृताः भवन्ति । अधुना समाजे नारीधर्षणम्, गणधर्षणम्, धनापहरणम्, साफल्यं प्राप्तये असदुपायावलम्वनम्, धनार्थं पुत्रः पितरं हन्ति , कनिष्ठभ्राता ज्येष्ठभ्रातरं हन्तीति परिदृश्यन्ते । अतः तेषु मानवेषु सचेतनतायाः विकासः, मानविकमूल्यवोधानां विकासः, स्वपर्यावरणं प्रति कर्त्तव्यवोधज्ञानस्य विकासः, संघे शक्तिः कलौयुगे भावनायाः विकासः एव स्वच्छभारताभियानस्य लक्ष्यं भवति । स्वच्छतानाम मलशुन्यता ।शरीरस्य मलं जलेन,वाचः मलं व्याकरणेन, हृदयस्य मलिनता सच्चरित्रश्रवणेन , परिवेशस्य मलिनता वृक्षादीनां रोपणेन च भवति । शारीरिकस्वच्छतायै स्नानं कर्त्तुं, हृदयस्य मलिनतां दूरीकर्त्तुं कामक्रोधरहितं भवितुं, परिवेशस्य स्वच्छतायै वृक्षरोपणं कर्त्तुं जलाशयमण्डपादीनां प्रतिष्ठापयितुञ्च उपदेशः संस्कृतसाहित्ये वर्तते ।
How to cite this article:
Dr. Menakarani Sahoo. संस्कृतसाहित्यदृष्ट्या स्वच्छभारताभियानस्योद्देश्यम्. Int J Sanskrit Res 2020;6(4):20-22.