International Journal of Sanskrit Research
2020, Vol. 6, Issue 3, Part A
श्रीमद्भगवत्गीताया: सांख्ययोगे मूल्यशिक्षा
डाँ. सस्मिता साहु
वेद- उपनिषद्- पुराण- रामायण- महाभारत- श्रीमद्भगवत्गीता- स्मृतिशास्त्र- नीतिशास्त्रं चेत्यादिषु संस्कृतग्रन्थेषु मूल्यशिक्षा स्पष्टतया आलोचितास्ति । एतेषु अष्टादशाध्याय-समन्वितायां श्रीमद्भगवत्गीतायां सर्वत्र मानवीयमूल्यबोध: दरीदृश्यते । तत्र द्वितीयोऽध्याये सांख्ययोगे द्विशप्ततिश्लोका: विद्यन्ते, यत्र मानवीयमूल्यनिर्धारणे शिक्षाया: महत्त्वं प्रतिपादितमस्ति । शैक्षिकानुष्ठाने छात्राणां चरित्रनिर्माणार्थं सर्वाङ्गीणविकासार्थं च मूल्यशिक्षा अपरिहार्या । फलाकांक्षा-त्यागपूर्वकं कर्त्तव्यकर्मकरणेन एव मानवजन्म सार्थको भवतीति शिक्षा भगवता श्रीकृष्णेन निगदिता । श्रीमद्भगवत्गीतायां प्रतिपादिता मूल्यशिक्षा शिक्षाव्यवस्थाया: सुपरिचालनार्थं सम्यक्-जीवनयापनार्थं च अत्यावश्यकी वर्तते । सांसारिक-आध्यात्मिकविकासयो: मूल्यमपि अत्र सूचितमस्ति । अस्मिन् लेखे दृढ़मनोभावना, साहसिकता, आत्मसचेतनता, कर्त्तव्यपरायणता, कर्मयोगसाधना, इन्द्रियसंयम: चेत्यादीनां मूल्यशिक्षा-सम्बन्धितानां विषयाणाम् विवेचनार्थं प्रयास: कृत: ।
How to cite this article:
डाँ. सस्मिता साहु. श्रीमद्भगवत्गीताया: सांख्ययोगे मूल्यशिक्षा. Int J Sanskrit Res 2020;6(3):34-38.