कोSरुक् (कः आरॊग्यवान्?)
Dr. N Venkatesha Rao
मानवजीवनॆ आरॊग्यस्य प्रामुख्यता बहुप्रकरॆण विद्यतॆ।स्वस्थः पुरुषःस्वस्य कल्याणमपॆक्षतॆ।तॆन सह सः आरॊग्यशाली स्वकुटुम्बस्य, संबन्धिनां च मंगलं आशास्तॆ।तॆन सहजतया सर्वस्यापि समाजस्य मंगलं कांक्षतॆ।“सर्वॆऽपि सुखिनः सन्तु सर्वॆ सन्तु निरामयाः।सर्वॆ भद्राणि पश्यन्तु मा कश्चित् दुःखमाप्नुयात्” इति।एवं दुःखरहितं सुखमयं जीवनं समष्टिदृष्ट्या समाजॆ आवश्यकम् ।व्यक्तितः पुरॊगामी भूत्वा अनन्तरं कौटुम्बिकजीवनं,तॆन सह सामजिकजीवनं सुखमयं भूयात् इति भूयः बुद्धिमता प्रार्थ्यतॆ।तत्र आरॊग्यविधानॆषु औषधस्वीकारः,यॊगमार्गः.व्यायामः,दॆवताप्रार्थनं, उपवासः,एवं बहुप्रकाराः सन्ति।तत्रापि रॊगनियन्त्रणादपि,रॊगनिवारणादपि,यथा रॊगः एव न आक्रमति तथा जीवनं वरम् ।Prevention is better than cure इति विवॆकिनः वदन्ति।आरॊग्यस्य रहस्यं आहारविधानॆ एव निगूहितम्। चरकः तदॆव वक्ति-आहारसंभवं वस्तु,रॊगाश्चाहारसंभवाः।हिताहितविशॆषाश्च विशॆषः सुखदुखयॊः इति। अतः पुरुषः स्वस्थॊ वा भवतु,अस्वस्थॊ वा भवतु,सः आहारं अनुदिनं अपॆक्षतॆ इति तु सत्यमॆव।सदाहारसॆवनॆन अस्वस्थः आरॊग्यपथमायाति।स्वस्थस्तु आहारसॆवनॆन सस्मितः पूर्वतःअपि धृढः भविष्यति।आहरसॆवनमॆव भॊजनक्रमः इत्यभिधीयतॆ।यः विधिबद्धतया भॊजनं करॊति स आरॊग्यभाग् भवतीत्यत्र नास्ति संशयः।“अद्यतॆ विधिवद्भुक्तं अत्ति भॊक्तारमन्यथा।आयुष्यं स्वास्थ्यदं पूर्वमन्यथैवॆतरत् स्मृतम् ॥इति वैद्यकीयसुभाषितम् ।विधिसहितं भॊजनं आयुर्वर्धकं,आरॊग्यदायकं च। अत एव उच्यतॆ-ज्ञात्वा भॊक्तुः विद्यतॆ नैव रॊगः इति। अन्यथा अन्नमॆव पुरुषं निगीर्य तं रॊगिणं करॊति। एवं सति भॊजनस्य विधिभिः आरॊग्यमार्गस्य विवॆचनं संगतमॆव।एतदर्थं हितभॊजनं, मितभॊजनम्, क्षुद्भॊजनं, इति त्रिसूत्रं आयुर्वॆदॆ आहारक्रमॆ आख्यातम् । एतस्मिन् विषयॆ चरकस्य अभिप्रायः, कवीनां वादः, स्मृतिकाराणां आशयःसर्वः संगृहीतः।मनसः, चित्तस्य च स्वास्थ्याय भोजनविधिः “हितभॊजनं, मितभॊजनम् क्षुद्भॊजनम्, इति त्रिषु वृत्तॆषु प्राचीनैः परामर्शिता।अयं विचारःव मया लॆखनॆऽस्मिन् निरूप्यतॆ।
How to cite this article:
Dr. N Venkatesha Rao. कोSरुक् (कः आरॊग्यवान्?). Int J Sanskrit Res 2020;6(2):287-292.