International Journal of Sanskrit Research
2020, Vol. 6, Issue 2, Part E
अभिज्ञानशकुन्तले निर्वाचितार्थालंकारविश्लेषणम्
अर्पितानाथः
भारतीयसाहित्यजगति ये ये कवयः लब्धप्रतिष्ठः तेषु कविषु महाकविः कालिदासः श्रेष्ठरिति सर्वजनमनोऽभिरामप्रवादः प्रसिद्धोऽस्ति। कालिदासस्य कवित्वशक्तिः सर्वजनविदितैव। तस्य कृतिर्यथा ऋतुसंहारः, मेघदूतम्, कुमारसम्भवम्, रघुवंशम्, मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशकुन्तलञ्च। कवेः सर्वासु रचनासु अभिज्ञानशकुन्तलमिति नाटकं प्रधानतममिति प्रसिद्धम्। अभिज्ञानशकुन्तलमिति नाटकस्य रचनाविषये महाकवेः कालिदासस्य सर्वाधिका प्रसिद्धिर्वर्तते। उपमालंकारप्रयोगे कालिदासस्य सर्वाधिका ख्यातिर्वर्तते। उक्तञ्च- उपमा कालिदासस्य। अर्थालंकारेषु उपमा अन्यतमा। विश्वनाथाचार्यः साहित्यदर्पणमिति ग्रन्थे दशमे परिच्छेदे अर्थालंकारालोचनायाः प्रारम्भे उपमालंकारस्य लक्षणं प्रदत्तवान्। विरुद्धधर्ममनुल्लिख्य एके वाक्ये यदि द्वयोर्विसदृशपदार्थयोर्मध्ये साम्यं वाच्यं स्यात् तर्हि तत्र उपमालंकारो भवति। उपमालंकारस्य चतुर्विधानि अङ्गानि भवन्ति – उपमेयोपमानं साधारणधर्मः सादृश्यवाचकशब्दश्च। पूर्णोपमा-लुप्तोपमा-श्रौती-आर्थीभेदेन उपमा चतुर्विधा। अतएव कविः तस्य रचनायाः सौन्दर्यवृद्ध्यर्थमलंकारप्रयोगे सचेष्टो भवेदिति भावः। कविः कालिदासोऽपि तस्य रचनासु विविधानां शब्दालंकारानामर्थालंकाराणाञ्च व्यवहारं कृतवान्। येन तस्य रचना सौन्दर्यशाली अभवत्। यद्यपि संख्याविचारेण उपमालंकारप्रयोगः नाधिकः, तथापि वर्णनामाधुर्येण उपमालंकारसमन्विताः श्लोका अनवद्या इति। अतएव अभिज्ञानशकुन्तले निर्वाचितार्थलंकारविश्लेषणं प्रबन्धस्यास्य मुख्यतममुद्देश्यम्।
How to cite this article:
अर्पितानाथः. अभिज्ञानशकुन्तले निर्वाचितार्थालंकारविश्लेषणम्. Int J Sanskrit Res 2020;6(2):280-286.