Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 2, Part E

साहित्यदर्पणे रसवादस्य स्थितिः

अमितदासः, गवेषकः

‘न हि रसादृते कश्चिदर्थः प्रवर्तते’ इति भरताचार्यः। भरतेन सर्वप्रथमेव रससूत्रं प्रणीतम् – ‘विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः’। संस्कृतालंकारशास्त्रे रसस्य सर्वातिशायि प्राधान्यम् अभ्युपगतम्। आनन्दवर्धनोऽपि ध्वनिप्रस्थानस्य प्रतिष्ठामुखेन रससादस्य महत्त्वमङ्गीकृतम् । ध्वनेः त्रिविधत्वं स्वीकुर्वतापि रसध्वनेः सर्वातिशायित्वम् अभ्युपगतम् – ‘वस्त्वलंकारध्वनी रसध्वनौ पर्यवस्येते’। ‘रसो हि परमो व्यङ्ग्य’ इति आलंकारिकराद्धान्तः। मम्मटेनापि रसस्य युक्तिनिष्ठं व्याख्यानं विहितम्। काव्यप्रकाशस्य चतुर्थे उल्लासे रसस्य स्वरूपमुक्त्वा रसभेदाः उदाहरणपुरःसरम् आलोचिताः। मम्मटोऽपि रसवादस्य प्रवक्तेति। परं विश्वनाथः साहित्यदर्पणे रसवादस्य वलिष्ठं व्याख्यानं चकार। तन्मते रसयुक्तं वाक्यमेव काव्यम् – वाक्यं रसात्मकं काव्यम्।
‘रस्यते आस्वाद्यते अनेन’ इति रसः। अर्थात् आस्वाद्यत्वं रसधर्मः। सत्वोद्रेके सति रसस्याविर्भावः, स च रसोऽखण्ड:, वेद्यान्तरस्पर्शशुन्य: स्वप्रकाशानन्दात्मा, चिन्मय:, लोकोत्तरचमत्कारसार:, ब्रह्मास्वादसहोदरश्चेति। रस एव स्वाकारवदभिन्नत्वेनास्वाद्यते।रस आस्वाद एव, न आस्वाद्य:।तथापि व्यवहारतो रसो ह्यास्वाद्यत इति प्रयुज्यते। रसोऽखण्ड इत्यस्या उक्तेर्व्यापकोऽर्थो विद्यते रसानुभूतो विभावानुभावव्यभिचारिभावानां न पृथक्तया प्रतीतिरपि तु समन्वितानुभूति:।
रसानुभवो वेद्यान्तरस्पर्शशुन्यो यथा रसो हि नाम पूर्णा तन्मयीभावस्थिति:, तत्र च स्वभावादेव वेद्यान्तरस्पर्शः संभाव्यते।
अस्यायमाशयो यद्रसस्थितौ प्रमाता स्वपरततस्थादिभावनाविनिर्मुक्तो भवति।तन्नये, रसस्तावच्चमत्कारसारः।
Pages : 272-275 | 839 Views | 103 Downloads
How to cite this article:
अमितदासः, गवेषकः. साहित्यदर्पणे रसवादस्य स्थितिः. Int J Sanskrit Res 2020;6(2):272-275.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.