Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 2, Part E

साहित्ये दर्शनम : कालिदास: शंकुतलम

Kshipra Joshi

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री, ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यां आहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥१॥ (नान्द्यन्ते) सूत्रधारः -- (नेपथ्याभिमुखमवलोक्य) आर्ये यदि नेपथ्यविधानमवसि अमितस्तावदागम्यताम् । (प्रविश्य) नटी - आर्यपुत्र इयमस्मि । सूत्रधारः -- आर्य अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुंतलाख्येन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः। नटी -- सुविहितप्रयोगतयायार्यस्य न किमपि परिहास्यते । सूत्रधारः -- आर्ये कथयामि ते भूतार्थम् । आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः॥२॥ नटी -- आर्य एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु । सूत्रधारः -- किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् । सम्प्रति हि - सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः । प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः॥३॥ नटी -- तथा । (इति गायति) ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि । अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि॥४॥ सूत्रधारः -- आर्य साधु गीतम् । अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः । नटी -- नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुंतलं नामापूर्वं नाटकं प्रयोगे अधिक्रियतामिति । सूत्रधारः -- आर्ये सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया तत् । कुतः । तवास्मि गीतरागेण हारिणा प्रसभं हृतः । एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा॥५॥ (इति निष्क्रान्तौ)
Pages : 268-271 | 732 Views | 92 Downloads
How to cite this article:
Kshipra Joshi. साहित्ये दर्शनम : कालिदास: शंकुतलम. Int J Sanskrit Res 2020;6(2):268-271.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.