International Journal of Sanskrit Research
2020, Vol. 6, Issue 1, Part C
शास्त्रेषु प्रायश्चितस्वरूपविधानम्
डा. शकुन्तलादाश
धर्मशास्त्रसाहित्ये मुख्यतः त्रयविषयाः सन्ति। तेषु विषयेषु आचार, व्यवहार, प्रायश्चितश्चेति। धर्मशास्त्रसाहित्यस्य पर्यालोचनेन बहवः विषयाः दृष्टिपथारूढाः भवन्ति। तेषु प्रायश्चित्ताध्यायमेकं महत्त्वपूर्णं स्थानम् विद्यते। संस्कारस्य, श्राद्धस्याशौचस्यापि दैनन्दिनलोकोपयोगित्वात् तेषां महत्त्वमावश्यकत्वं च जगति जनानां सम्यक् विद्यते, तद्वत् प्रायश्चितस्यापि आवश्यकता अस्ति। प्रयाश्चित्तं भवति पापक्षयसाधनभूतं नैतिककर्म । यदि कश्चित् ज्ञानतोऽज्ञानतः वा कामतोऽकामतो वा गुरुं लघुं वा पापमाचरति तदर्थं सः पापतारतयेन प्रायश्चितम् आचरेदिति सर्वैः मन्वादिस्मृतिकारैः गीतमादिसूत्रकारैः च प्रतिपादितम्। यद्यपि ज्ञानकृतस्य कामकृतस्य च पापस्य निष्कृतिः नास्ति इति याज्ञवल्क्येन प्रतिपादितं, तथापि प्रायश्चित्तं लोकसंव्यवहारार्थं कर्त्तव्यम्। अन्यथा सः समाजे निन्दनीयः स्यात्, यदि अकामतः अज्ञानतो वा किञ्चित् पापम् आचरितम्, तस्य परिणतिरूपं नरकादिकं मरणानन्तरं माभविति हेतोः प्रायश्चित्तमाचरणीयम्। अतः तदर्थभावं मनसि निधाय शास्त्रेषु प्रायश्चितस्वरूपविधानम् इति शीर्षकमाधारीककृत्य शोधनिबन्धमिमं संरचितवती।
How to cite this article:
डा. शकुन्तलादाश. शास्त्रेषु प्रायश्चितस्वरूपविधानम्. Int J Sanskrit Res 2020;6(1):149-153.