Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 1, Part A

भट्टलक्ष्मीधरस्य चक्रपाणिविजयम् इति महाकाव्ये कतिपयकृदन्तप्रयोगाणां व्याकरणदृष्ट्या परिशीलनम्

डॉ. जयकृष्ण

चक्रपाणिविजयम् इति महाकाव्यम् महाकविना भट्टलक्ष्मीधरेण विरचितम् अस्ति। अयं कविवरः महाराजस्य भोजस्य सभायाम् प्रसिद्धेषु कविषु अन्यतमः आसीत्। अस्य चक्रपाणिविजयम् इति कृतिः विंशत्या सर्गैः विलसति। कवीनां हि प्रयोगाः भवन्ति विशिष्टाः इति अध्येतृभिः ज्ञायते एव काव्यानाम्। तत्र बहुत्र बहुविधरीत्या अर्थसङ्गतिः भवति कर्तव्या। तत्रैव च व्याकरणात् ऋते काव्यावगमनं तु दुःशकमेव। पञ्चमहाकाव्यादिषु मल्लीनाथादिभिः महदेव लोकोपकारकं कार्यं कृतं वर्तते इति न कस्यापि अज्ञातं संस्कृतलोकस्थस्य। तत्र इतरेषु अपि महाकाव्येषु शब्दगता स्पष्टता आवश्यकी अस्ति इति कृत्वा चक्रपाणिविजयम् इति महाकाव्यम् आदाय व्याकरणं पुरस्कृत्य चिन्तनं कर्तुं कश्चन यत्नः अत्र विधीयमानः अस्ति शोधप्रबन्धे। तत्रास्मिन् लेखे तावत् कतिपयानां कृदन्तविचाराणाम् एव सङ्ग्रहः अकारि।
Pages : 21-24 | 682 Views | 74 Downloads
How to cite this article:
डॉ. जयकृष्ण. भट्टलक्ष्मीधरस्य चक्रपाणिविजयम् इति महाकाव्ये कतिपयकृदन्तप्रयोगाणां व्याकरणदृष्ट्या परिशीलनम्. Int J Sanskrit Res 2020;6(1):21-24.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.