Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 1, Part A

श्रीनिधिसाहित्ये उक्तिप्रत्युक्तिविचार:

डॉ. सोमनाथदाश:

दक्षिणभारते प्रसिद्धेषु भक्तिसाहित्यप्रणेतृषु वरकविः कविवरश्च श्रीश्रीनिधिस्वामी अन्यतमः । तेन बहूनां देव-देवीनां महत्त्वमुररीकृत्य स्यीयभगवद्भक्तिः प्रादर्शि । प्रायशः विंशतिसहस्रश्लोका: तेन रचिता: । एतेषु सर्वेष्वपि सौन्दर्यतत्त्वानि विलसन्ति सर्वेषां सहृदयानां हृदयानि रञ्जयन्ति । रस-गुण-अलङ्कार-रीति-वक्रोक्ति-औचित्यसारभूतानि अस्य पद्यानि सर्वेषां पण्डितानामपि चेतांसि चन्दन्ति । कविः कश्चन शब्दक्रीडानिपुणः शब्दाडम्बरमेव स्वकाव्ये प्रदर्शयति, कश्चन भावप्रवणः भावेषु तल्लीनः स्वतःस्फूर्ततया शब्दाडम्बरं विना प्रसादगुणगुम्फितानि पद्यानि रचयति, अन्यश्च प्रतिभावान् भावं शब्दाडम्बरं च उभयथा उट्टङ्कयितुं प्रभवति । एवं प्रकारेण एतेषु तृतीयप्रकारकोऽयं श्रीनिधिस्वामी भावभङ्गं विना शब्दसंयोजनायामपि निपुणः दृश्यते । एकस्मिन्नेव श्लोके उक्तिप्रत्युक्तिं प्रदर्श्य स्वीयशब्दसंरचनायाः अपूर्वं वैदुष्यं तेन प्रदर्श्यते । एषा उक्ति-प्रत्युक्तिप्रक्रिया “संवाद:”, “वाकोवाक्” इत्यपि उच्यते । आंग्लभाषायामेतत्पदं Dialogueइति कथ्यते । वेदोपनिषद्रामायण-महाभारत-पुराण-संहितादिषु ग्रन्थेषु एतादृशाः संवादाः प्रायशः प्राप्यन्ते । श्रीमद्भगवद्गीतायां श्रीकृष्णार्जुनसंवादः प्रसिद्धः । एतादृशाः संवादाः पृथक् पृथक् श्लोकेषु प्राप्यन्ते । श्रीनिधिस्वामिनामुक्तिवैचित्र्यं तु तस्माद्भिन्नं भवति । एकस्मिन्नेव च्छन्दोबद्धपद्ये द्वयोः संवादः उक्तिप्रत्युक्तिश्च तेन प्रदर्श्यते । एतादृशी परम्परा अलङ्कारशास्त्रे शब्दालङ्कारसन्दर्भे वक्रोक्त्यलङ्कारे सहृदयैराकलयितुं शक्यते । प्रकृते शोधपत्रे श्रीनिधिसाहित्येषु - वसुमतिशतकम्,विण्णगरप्पन्विंशति:,श्रीगोपालत्रिंशत्, श्रीभद्राचलपञ्चाशत्, श्रीद्वारकात्रिंशत्, मुरली- पञ्चाशत्,पादस्तुतिः,कुञ्जररञ्जनम्, मञ्जुरामायणे सीताविवाहाध्याय:, श्रीमालोलविलास: (प्रथमसर्ग:),श्रीमन्दस्मितरामायणम् (बालस्पन्द:) इत्यादिषु वाकोवाग्वैचित्र्यम् किञ्चिदत्रोदाहरणपुरस्सरं पर्यालोच्यते ।
Pages : 14-17 | 716 Views | 91 Downloads
How to cite this article:
डॉ. सोमनाथदाश:. श्रीनिधिसाहित्ये उक्तिप्रत्युक्तिविचार:. Int J Sanskrit Res 2020;6(1):14-17.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.